सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

३यः ५७६५७६ ] भ्वादिपरपदप्रक्रिया ५७६। गमेरिट् सरामादिरामधातुके, नात्मपदे । गमिष्यति ; गंस्यते । स्कन्दिर् गति-शोषणयोः ‘इनुबन्धान् डणे वा (४५३), ‘अनिरामेतां’ (४५६) इति नस्य हरः-अस्कदत् । पक्षे अस्कान्तसीत् । प्रक्रिया (पा ४।३७४) तु चिन्त्या। तू प्लवन तरणयोः-—तरति ;-- ५७६ ॥ ५७७ । ऋरामस्येयं कसारा। धातो र-व-( २६४) इति त्रिविक्रमः -तीर्यते । अतारात् ; अतारि ॥ ५७७ ॥ ५७८ । ऋराम-इटस्त्रिविक्रमो वा, न तु पर पद-सौ कामपालाधोक्षजयोश्च । ५७६ । इण्वदिटो न त्रिविक्रमः। अतरीषाताम्, अतरिषाताम्, अतारिषाताम् । ‘ऋराम-वृ सत्- सङ्गाद्यदन्तेभ्यः (५५९ ) इति पक्षे नेट्-अतीषताम् । ततार। ५७६ । गमेः । सरामादिरामधातुके परे गमेरुत्तरे इड् भवति, आत्मपदे च न भवति । अस्कान्त्सीत् इति, ‘विष्णुजनान्तानामनिटां सौ परपदे’ इत्यनेन वृष्णीन्द्रः यादवमत्रे हरिकमलन्’ । प्रक्रियातु चिन्त्येति, तस्मात् प्रक्रियायां नैवं मतमिति बोद्धव्यम् ।। ५७७ । ऋराम । कंसारौ परे ऋरामस्य स्थाने इर् भवति ।। ५७८ । ऋराम । ऋरामवृभ्यः परस्य इटस्त्रिविक्रमो वा भवति. परपद-सौ कामपाले अधोक्षजे च परे न भवति । वृ इति, वृऊ संभक्तौ, वरणे द्वयोरेव ग्रहणम्, अतो बहुवचनमुपन्यस्तं, द्विवचनोपन्यासेऽपि असङ्गतिर्न स्यात् । ५७६ । इण्व । इण्वदिटस्त्रिबिक्रमो न भवति । एत्वे, ‘नरादर्शने, इति, तू-फल-भज-त्रपामित्यादिनेति शेषः । नैत्वादीति, ‘शसु-ददवरामा- दीनामि' ति निषेधः । -२६