सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/२५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२४ श्रीहरिनामामृतव्याकरणम् [ ३यः ५७२-५७५ ५७२। सुस्तुधूभ्य इय् सौ परपदे । असावीत् । न गतौ – ॥ ५७२ ॥ ५७३। णि-त्रि-द्रु-स्र-कमिभ्योऽङ भूतेशे कर्तरि । ‘धातोश्चतुःसनस्येयुबौ' (५०४ )-असुनुवत् । गम्छ गतौ ; ‘इषु-गमि'-(५२६) इति उछ:--यच्छति ; गम्यते - ५७३ ॥ ५७४। पुषादि-युतादि-ऋदितो डो भूतेशपरपदे । पुषादियं दिवाद्यन्तर्गणः। अगमत् ; अगामि। ‘गमेस्तु वा' (४६) इति सेः कपिलत्वम् : ‘हरिवेण्वन्त-(५२६) इत्यादिना अगसाताम्, कपिलत्वाभावे अगसाताम्। एवम्-अगसत, अगंसत ; अगथाः, अगंस्थाः । जगाम ॥ ५७४ ॥ ५७५ । गम-हन-जन-खन-घसामुद्धवादर्शनं कंसारि सर्वेश्वरे ड” विना। जग्मतुः, जग्मुः ; जगमिथ, जगन्थ ॥ ५७५ ॥ ५७२। सुस्तु । ष्टुञ्ज, स्तुतौ, षु प्रसवे, धुऊ, कम्पने इत्येतेभ्य उत्तरे सौ परे परपदे इड् भवति । ५७३ । णि-श्रि । ण्यन्तात्श्रिङ, सेवायांदृ गतौ, नृ गतौ, कमु कान्तौ इत्येतेभ्यश्चोत्तरे कर्तरि वाच्ये भूतेशे परे अत्र भवति । ५७४ । पुषादि । भूतेशपरपदे परे पुषादेर्युतादेनूदितश्चोत्तरे । भवति. द्युतादिभ्यन्तर्गणः। अगथा इति, ‘वामनवैष्णवाभ्यामित्यादिना से-हरः ।। ५७५ । गम । ॐ बिना ककंसारिसर्वेश्वरे परे गमतृ गतौ, हन हिंसा- गत्योः, जनी प्रादुर्भावेजन जनने, खनु अवदारणे इत्येतेषांघसश्च उद्धवारामादर्शनं भवति । घसिति, घस्लू अदने इत्यस्य 'अदो घसल तेश-सनोरधोक्षजे तु वेत्यनेन विहितस्य ग्रहणमिति केचित्, घसादेशस्थच धस्तृधातोरसार्वत्रिकप्रयोगत्वात् । आदेशस्यैव ग्रहणमित्यपि केचित् । ॐ विनेति कि, अगमत् । जगमिथ, जगन्थति, ‘सहजारामवतश्च तादृशा- दि' ति वेट्। ।