२१६ श्रीहरिनामामृतव्याकरणम् [ ३यः ५४६-५५० ५४ । दामोदरमा-स्था-गा-पिवति-जहाति-स्यती नामी रामो विष्णुजनरामधातुक-कंसारौ । ‘मा' इति मा-माडौ, गा' इति नै-गाडौ गृह्यते। गीयते ॥५४॥ ५५०। दामोदरादीनामेरामः कपिलकामपाले । गेयात् । दैट् शोधने ; प्राम इत् –दायति । कर्मणि-दायते । दामोदराभावान्नेत्वं, न सेर्महाहरत्वञ्च-अदासीत् ; अदायि । एवं च न–दायात्। धेट् पाने --इत् कृत ईयर्थः; धयति ; धीयते-—॥५५० ५४८ । सत्स । सत्सङ्ग आदिर्यस्य, तादृशस्य धातोरारामस्य स्थाने कपिलकामपाले परे एरामो वा स्यात् । ग्लेयादिति, ‘कामपालपर पदं कपिलः' इति कपिलत्वम्। सत्सङ्गादेरिति कि, यायात् । सत्सङ्गादेरिति नातो विशेषणं, तेन निर्यायादिति । ग्लायिषीष्टेति, ‘सहज-सर्वेश्वरान्त-हन ग्रह-दृशिभ्य इण्वदिङ् वा स्य-सि-कामपालवालकल्किषु भाव-कर्मणोरिति इण्वदिट्, ‘आतो युगिणि नृसिह-कृति चेति युक्। म्ले गात्रविनाम इति, विनानः कान्तिक्षयः ।। ५४ । दामो। धिष्णूजनश्चासौ रामधातुकश्चेति विष्णुजनराम- धातुःसचासौ कंसारिश्च तस्मिन् दामोदरस्य, मा माने अदादिःमार्क माने द्वादिदिवादिश्च, ष्ठा गतिनिवृत्तौ, गै शब्दे भ्वादिःगाऊ गतौ भ्वादिः पा पाने ओहाक् त्यागे, यो अन्तकर्मणि इत्येतेषाञ्च अन्त ईरामो भवति । पिवतीतिनिर्देशः पा रक्षण इत्यस्य निरासार्थः। जहातीतिनिर्देशः ओहाङ गतावित्यस्य निरासार्थः। स्यतीतिनिर्देशस्तु दैवादिकत्वसूचनायें, नत्वन्य निरासार्थःयऊलुकि ईरामविधानाभावर्थश्च ।। ५५० । दामो। कपिल-कामपाले परे दामोदरादीनामन्त एरामो भवति । कपिलेति कि, गासीष्ट। नेत्वमिति, ‘दामोदर-मास्थेत्यादिना न ईामः । न से महाहरश्चेति, ‘इण्-स्थापिवती'त्यादिना न सेर्महाहरः । एवं . च नेति‘दामोदरादीनामित्यादिना न एरामः। -इत् कृत ईयर्थ इति, टरामस्य इत्त्वं स्तनन्धयीत्यादौ कृत्प्रत्ययान्तादीप् प्रत्ययार्थमित्यर्थः। धीयत इति, दामोदरमास्थेत्यादिना ईरामः ।।
पृष्ठम्:Harinamamrita vyakaranam.pdf/२४७
दिखावट