२०४ श्रीहरिनामामृतव्याकरणम् [ ३यः ५१३-५१५ ५१३ । वामनस्य त्रिविक्रमः कृत्-कृष्णधातुकेतर-य-प्रत्यये । क्षीयते ; अभैषीत् ; चिक्षाय, चिक्षियतुःचिक्षियुः ; चिक्षयिथ चिक्षेथ। कृति तु यम् । कृष्णधातुके क्षियात् । लगे सङ्ग ॥ ५१३ ॥ ५१४। ह-मयान्त-क्षण-श्वस-इवीनामेरामेतश्च न वष्णीन्द्रःसेटि सौ परपदे । अलगीत् । गुपू रक्षणे ; ऊरास इत् ॥ ५१४ ॥ ५१५। गुर्-धूपविच्छि-पणि-पनिभ्य आयः। गोपाय। सनाद्यन्ताश्च धातवः ;~ सन्-यन्क्यङश्च काम्यश्च क्यङर्थक्विप् च णिस्तथा। कण्डादि यक् तथैवाय ईयङ् यङ् स्युः सनादयः। तिप्, शप् गोपायति ॥ ५१५॥ २०० + १०० २१ + २२ २००१ ५१३ । वामनस्य । कुत्कृष्णधातुकाभ्यामितिरस्मिन् य-प्रत्यये परे वामनस्य त्रिविक्रमो भवति । अथैषीदिति, ईशान्तस्य वृष्णीन्द्रः सौ परपदं इत्यनेन वृष्णीन्द्रः। चिक्षायेति, ‘नरविष्णूजनानामादिः शिष्यते’ इति ‘क-वर्गनरस्य चवर्गः’ इति । चिक्षियनुरिति, धातोश्चतुःसनस्ये’ त्यादिना इय्। कृति तु क्षेयमिति, सर्वेश्वरान्तधातोर्यदिति यत् । नात्र वामनस्य त्रिविक्रमः । ५१४। हम । हश्च मश्च यश्च ते हयास्ते अन्ते येषाम् । क्षणु हिंसायां श्वस प्राणने, टुओश्विगतिवृद्वयोरित्येतेषाम्, एरामेतश्च परपदे सेटि सौ सति वृष्णीन्द्रो न भवति, अलीदिति, विष्णुजनादेर्लघोरित्यादिना वृष्णीन्द्रः नः स्यात ।। ५१५ । गुप् । गुपू रक्षणे, धूप सन्तापे, विच्छ गतौ, पणपन व्यवहारे स्तुतो च इत्येतेभ्य उत्तरे आयो भवति । ननु सनाद्यन्ताश्च धातव इत्युक्तं, सनादय एव के इति चेत्तत्राह सन्, यन्, क्यङश्चेति । आय उक्तः, अन्येतु वक्ष्यन्ते । गोपायतीति, अरामहर इत्यादिना अरामहरः ।।
पृष्ठम्:Harinamamrita vyakaranam.pdf/२३५
दिखावट