३यः ५०७५१२] भ्वादिपरपदप्रक्रिया २०३ ५०८। सर्वेश्वरान्तात् सहजानिट इड, वा थलि । ५०% । सहजारामवतश्च तादृशात् । ५१०। सृजि-दृशिभ्याञ्च । ५११। अथैत-वृव्येभ्यो नित्यम् । ५१२। ऋरामात्तु नित्यं नेट्। सहजा अनिटः शकादिगण-पठिताः। ‘सहज’ ग्रहणं सनादाव नित्वेऽपि ‘वभूविथ' इत्यादौ नित्यमिट्टभावार्थः। विवेथ, विवयिथ; अनादेशपक्षे - आजिथ। क्षि क्षये--क्षयति, क्षयन्ति ॥ ५१२॥ रित्यादौ 'धातो र व-प्रागिदतोस्त्रिविक्रमो रक्तो विष्णजने' इत्यनेन त्रिवि- क्रमो न स्यात्, विष्णुजनस्य परत्वाभावात् । द्वित्वविधौ तु स्थानिवन्न- भवति, अतो विष्णुजने विष्णुजनोवेत्यादिना पक्षे द्वित्वं तु स्यात्। वीति । प्रजनो गर्भग्रहणं, असनं क्षेपणं, तत्र चेति, तत्रच बीधातौ । प्रतिरूपत्वं सादृश्यम् । वीवदेव वीधातुवदेव । अस्य आदेशवीत्यस्य । ५०८ । सवें । थलि परे सर्वेश्वरान्तात् सहजानिटो धातोरुत्तरे इड़वा भवति । ५०६ । सह । तादृशात् सहजानिट: सहजारामवतश्च उत्तरे थलि इङ्वा भवति, सहजारामावत इत्यत्र सहजग्रहणं ससर्येत्यादौ इट् प्राप्ति शङ्कानिरासार्थम् ।। ५१० । सृजि । सृज विसरों, दृशिर् प्रेक्षणे इत्येताभ्याञ्चोत्तरे थलि इङ्वा भवति ।। ५११ । अत्यति । अद भक्षण, ऋगतौ प्रापणे च भ्वादिःऋगतौ दिः, द्वयोरेव ग्रहणम्, वृ वरणे, व्यञ्ज सम्वरणे इत्येतेभ्य उत्तरे नित्य मिड् भवति । ५१२। ऋरा । उक्तादन्यत ऋरामात्तु थलि नित्य इट् न भवति । सहजग्रहणमिति सहज़निटः इत्यत्रेति शेषः । सहज़निट इत्यत्र सहजग्रहणं उद्वयग्रहगुहेभ्य इत्यनेन सनादौ प्रत्यये परे अनि त्वविद्यमानेऽपि वभूविये त्यादौ प्रयोगे नित्यमिट्ट भावार्थमिति, अन्यथा इटो विकल्पः स्यादिति । ।
पृष्ठम्:Harinamamrita vyakaranam.pdf/२३४
दिखावट