१६० श्रीहरिनामामृतव्याकरणम् [ ३यः ४७६-४७८ S ४७६ । तस्मान्नुड द्विविष्णुजने धातौ। आट, आटतुः ॥ ४७५-४७६ ॥ रद विलेखने- रराद ; ४७७ । आदेशहीन-नराद्यक्षरस्य धातोरसंयुक्तविष्णुजनमध्य- स्यारामस्य एत्वं नरादर्शनंच कपिलाधोक्षजे सेट्थलि च। ४७८। तृ-फलभज-त्रपां, नलोपि-ग्रन्थि-ग्रन्थि दन्भीनाञ्च । ३ १२ ४७५ । नरादे । नरश्चासौ आदिश्चेति नरादिस्तथाभूतस्य अरामस्य त्रिविक्रमो भवति । ननु नरारामस्येति कृते को दोष इति चेत्तत्रोच्यते, नरस्यारामः नरारामस्तस्येति अनिष्टविग्रहे पपाटेत्यादावपि त्रिविक्रमः स्यात् ।। ४७६ । तस्मात् । द्विविष्णुजने धातौ परे तस्मात् त्रिविक्रमादुत्तरे नड भवति । ४७७ । आदेश । नरस्य आद्यक्षरं नराद्यक्षरं, आदेशहीनं नराद्य- क्षरं यस्य, तादृशस्य धातोरसंयुक्तविष्णुजनयोर्मध्यस्य मध्यतनोऽरामस्य स्थाने कपिलाधोक्षजे सेट थलिच परे एत्वं भवति, नरादर्शनञ्च भवति, असंयुक्तेति, एकैकहलो सन्निहितौ यस्य तादृशस्यैवारामस्य एत्वं भवतीति । ततक्षुःतत्सरुरित्यादौ न भवति । ननु आदेशहीननरस्येति कृते को दोष इति चेत्तत्रोच्यते-आदेशहीन-नरस्येति कृते जगदतुरित्यादावपि एत्वं नरा दर्शनञ्च स्यात्, यतोऽराम सहितगराम एव नरः , आदेशस्तु अरामरहित गरामस्य, सारामगरामस्य आदेश इति न वाच्यं, यतो हि गतावित्यस्य हे द्विर्वचने कृते हरामस्य जत्वं न स्यात्, तस्मादराम रहितस्यैव जत्वमिति । इदानीन्तु जगदतुरित्यादौ आदेशहीननराद्यक्षरत्वाभावादेवं, नरादर्शनञ्च न भवतीति न कश्चिद्विरोधः ।। ४७८ । तृ-फल। त् प्लवनतरणयोः , फलनिष्पत्तौ त्रिफला विश- रणे द्वयोरेव ग्रहणं, भज सेवायां, त्रपुष लज्जायाम् इत्येतेषां नलोपिनां
पृष्ठम्:Harinamamrita vyakaranam.pdf/२२१
दिखावट