१८२ श्रीहरिनामामृतव्याकरणम् [ ३यः ४४५-४५० भावे -चित्येत। विधातरि चेततु चित्यताम् । भूतेश्वरे अचेत ; अचित्यत ॥ ४४५॥ भूतेश-दि, सिः (४१७), इट् (४२६), गोविन्दः ३५), ४४६ । अस्ति-सिभ्यामीड्दिप्सिपोः । ४४७ । इटः सि-लोष ईटि । अचेतीत्अचेतिष्टाम् ॥ ४४६-४४७॥ ४४८ । सि-नारायण-वेत्तिभ्योऽन उस । अचेतिषुः अचेतीःअचेतिष्टम्, अचेतिष्ट ; अचेतिषम्, अचे तिष्व, अचेतिष्म। भावे-अचेति ॥ ४४८ ॥ अधोक्षजे-चिचेत ; ४४ । असंयोगादलिदधोक्षजः कपिलः । ४५०। स्वञ्जेर्वा । । ४४६ । अस्ति । दिषु सिपोः परयोरस् भुरीत्यस्मात्, सेश्चोत्तरे ईड् भवति ।। ४४७ । इटः । ईटि परे इञ् उत्तरस्य सेर्लोपो भवति । सिहर इति पाठ उपयुक्तः। अचेतिष्टामिति, ईश्वरेत्यादिना षत्वं, षात् परस्येत्यादिना टत्वम् ।। ४४८ । सि-नारा । सेर्नारायणात्, विद्-ज्ञाने इत्यस्माच्च परस्य अनः स्थाने उस् भवति । द्विर्वचने कृते परो वर्णा नारायण इत्युक्तं, जक्षादिरपि नारायण इति वक्ष्यते, द्वयोरेव ग्रहणं, अचेतीति-‘इण् भूतेश-ते' इत्यादिना इण्, गोविन्दः । 'इणस्तो हर’ इति तरामस्य हरः । ४४९ । असंयोग । असंयोगात् परोऽलिदधोक्षजः कपिलो भवति ।। ४५०। स्वजे । स्वजपरिष्वङ्ग इत्यस्मात् परोऽलिदधोक्षजः कपिलो वा भवति । संयुक्तान्तत्वात् अप्राप्ते विभाषा ।
पृष्ठम्:Harinamamrita vyakaranam.pdf/२१३
दिखावट