१७६ श्रीहरिनामामृतव्याकरणम् [३यः ४२१-४२७ ४२१। भुवो-भूव् भूतेशाधोक्षज-सर्वेश्वरे। अभूवन् ; अभू, अभूतम्, अभूत ; अभूवम्, अभूव, अभूम ॥४२१॥ ४२२। अत्-प्रतिषेधो मामास्मयोगे । मा भवान् भूत् । मास्म भूत ॥ ४२२ ॥ भावे-- ४२३ । इण् भूतेश-ते भाव-कर्मणोः। ण् इत् ; ‘चिण् (पा ३१६०, ६६; ६४१०४) ॥ ४२३ ॥ ४२४। अन्तस्य वृष्णीन्द्रो नृसिंहे । ४२५। इणस्तो हरः। अभावि। कर्मणि अभावि ॥ ४२५ ॥ ४२६ । इट् रामधातुके । ४२७। सहज-सर्वेश्वरान्त-हन-ग्रह-दृशिभ्य इण् वदिड्वा स्य-सि-कामपाल बालकल्किषु भाव-कर्मणोः। ‘दृशस्त्विड्' इति कृते पृथगारम्भे गौरवं स्यात् । अभाविषाताम्, अभविषाताम् ॥ ४२६४२७ ॥ । ४२० । भुवो । सिलुकि सति भुवो गोविन्दो न भवति । अत्रेति, अत्र भूतेशे । तस्य सेः । हेतुमाह-सकृदपीति-सकृच्छब्द एकवार वचनः । विप्रतिषेधे उभयप्राप्तिविरोधे ।। ४२१। भुवो । भूतेशाधोक्षजयोः सर्वेश्वरे परे भुवः स्थाने भूव् भवति ४२२। अत्-प्रति । मा-शब्दस्य मास्म-शब्दस्य च योगे अत् प्रतिषेधो भवति ।। ४२३ । इण् । भावकर्मणोर्वाच्ययोभूतेशते परे धातोरुत्तरे इण् भवति, सबपवादोऽयम् ।। ४२४ । अन्तस्य । नृसिंहे परे अन्तस्य वृष्णीन्द्रो भवति ।।
पृष्ठम्:Harinamamrita vyakaranam.pdf/२०७
दिखावट