३यः ४०२-४०६ ] भ्वादिपरपदप्रक्रिया १७१ अथ विधौ कर्तरि ४०२। अतो या ईः। भवेत्, भवेताम् ॥ ४०२ ॥ ४०३। अत इद् युसि । भवेयुः भवेः, भवेतम्, भवेत ॥ ४०३ ॥ ४०४। अतो याम इयम् । भवेयम्, भवेव, भवेम । भावे- भूयेत । प्राप्त्यथ कर्मणि भूयेत, भूयेयाताम्भूयेन्; येथाःभूयेयाथाम्भूयध्वम् = भूयेय, भूयेवहि, येमहि ॥ ४०४ ॥ अथ विधातरि कर्तरि--भवतुः-- ४०५। तु-ह्योस्तातङाशिषि वा सर्वत्र । भवताद्वा, भवताम्, भवन्तु ॥ ४०५ ॥ ४०६ । अतो हेर्हरः। भव भवताद्वा, भवतम्, भवत। भवानि, भवावभवाम ॥ ४०६॥ == समानः इत्यत्र च अरामहर इत्यादिना अराम हरः। भूयावहे इति=अ आ वमोरित्यनेन अरामस्यारामः । ४०२ । अ-ती । या इति लुप्तषष्ठी । अत उत्तरस्य यारामस्य स्थाने ईर्भवति । ४०३ । अतः । युसि परे अत उत्तरे इङ्भवति ।। ४०४। अतो । अत उत्तरस्य यामः स्थाने इयम् भवति । ४०५। तु-ह्योस्ता । आशिषि गम्यमानायां सर्वत्र तयोः स्थाने तात्ङ् वा स्यात् । ४०६ । अत । अत उत्तरस्य हेर्हरो भवति ।
पृष्ठम्:Harinamamrita vyakaranam.pdf/२०२
दिखावट