सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/१९७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६६ श्रीहरिनामामृतव्याकरणम् [ ३यः ३६८-३८५ ३७८ । पित् पृथुः । ३७६ । णित् ‘नृसिंहः । ३८० । कित् ‘कपिलः' । ३८१ डि' न्निर्गुणः। ३८२। किच्च ङिच्च 'कंसारिः। ३८३ । शित् शिवः'। ३८४। तिबादि नवनवानां पूर्वपूर्वाणि ’संज्ञानि । परपद परस्मैपदानि’ इत्यन्ये । तिप् तस अन्ति इत्यादीनि ; यात् याताम् युस् इत्यादीनि ; एवमुत्तरत्रापि ॥ ३८४ ॥ ३८५। उत्तरोत्तराणि'आत्मपद-संज्ञकानि । ‘आत्मनेपदानि’ इत्यन्ये, ‘तङ ' इति च। ते आते अन्ते इत्यादीनि ; ईत ईयाताम् ईन् इत्यादीनि । एवमुत्तरत्रापि ॥ ३८५ ॥ । ३७८ । पित् । पित् पृथुसंज्ञो भवति ।। ३७६ ॥ णित् । नित् नृसिंहनामा भवति । ३८०। कित् । कित् कपिलनामा । ३८१। ङित् । ङित् निर्गुणनामा । ३८२। किञ्च । किञ्च ङिच्च कंसारिनामा । ३८३ । शित् । शित् शिवनामा । ३८४ । तिवादि । तिवादिनवनवानां पूर्वपूर्वाणि नव नव पर पदसंज्ञानि भवन्ति । परपद-शब्देन वैकुण्ठादिकमुच्यत इति भगवन्नामता। सर्वेषामादौ तिप् वर्ततएवेति, तिवादीत्युक्तम् । नवनवानामिति वीप्सायां द्विरुक्तिः, न तु रामकृष्णसमासः । ३८५। उत्तरो। तिवादि नवनवानामुत्तरोत्तराणि नव-नव आत्मपदसंज्ञानि भवन्ति । आत्मशब्दस्य ब्रह्मवाचित्वात्, आत्मपदं ब्रह्म पदमिति भगवन्नामता ।