१५८ श्रीहरिनामामृतव्याकरणम् [ २यः ३६१-३६३ अमूभिः ; ‘स्याप् वृष्णिषु, पूर्वस्य च वामनः’ ( वि' प्र' ३६० ) अमुष्यं, अमूभ्याम्अमूभ्यः - अमुष्याः, अमूभ्याम्, अमूभ्यः ; अमुष्याः, अमुयोः, अमूषाम् ; अमुष्याम्, अमुयोः, अमूषु। एकः 'सर्व'वत् । द्विशब्दस्य -इ , दु, द्वाभ्याम्द्वाभ्याम्, द्वाभ्याम्, द्वयोः, द्वयोः। ‘भवतु शब्दादीप्- भवती, भवत्यौ । `किम्'शब्दस्य-का, के, काः -'सर्व-वत् ॥ ३६१ ॥ अथ ब्रह्मणि सर्वम्, सर्वे, सर्वाणि ; पुनस्तद्वत् ; तृतीयादौ पुरुषोत्तमवत् । ( उभ-औ ) उभे। ३६२। अन्यादिभ्यस्तु स्वमोब्र' ह्मणि। उकावितौ अन्यत् अन्यद्, अन्ये, अन्यानि । अन्यादय एका दशैकतरवर्जम् । तत्, ते, तानि । इदम्, इमे, इमानि ॥ ३६२ ॥ ३६३ । द्वितीयैकत्वे कथितानुकथने इदमेतदोरेनदा देशो ब्रह्मणि वाच्यः । एतद्गच्छति, अथो एनत् पश्य। अदः ; ‘अमै' इति स्थिते पधात् ऊ अमू, अमूनि ; पुनस्तद्वत् । दु , दु । भवत्, भवती, भवन्ति ; पुनस्तद्वत्। किम्, के, कानि ; पुनस्तद्वत् ॥ ३६३ ॥ ३६२। अन्या । स्वमोः परयोः । तदिति ‘ब्रह्मतः स्वमोर्महाहरः इत्यनेन प्रथमं महाहर एव भवति, अतः स्वादिपरत्वाभावान्न संसार स्यागमः ।। ३६३ । द्वितीय । द्वे इति संसारस्यारामे कृते औई ।। ३६४। अव्ययात् । अव्यायादुत्तरस्य स्वादेर्महाहरो भवति । ननु अव्ययमेव किम् इति चेत्तत्राह-स्वरादीति, स्वराद्यव्ययं, चाद्यव्ययं, वदादि-तद्धितोऽव्ययं, वामान्तश्च कृदव्ययमिति, स्वः प्रातरित्यादय इति, आदिशब्देन अन्तर् प्रादुर् पुनर् उच्चैस् नीचैस् शनैस् ऋते युगपद्
पृष्ठम्:Harinamamrita vyakaranam.pdf/१८९
दिखावट