सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/१८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१५४ श्रीहरिनामामृतव्याकरणम् [ २यः ३५२-३५५ ३५२। न च चादिभिर्योगे । ‘कृष्णो मम च सौख्याय, रामस्तव च शर्मणे' च, वा, हा, अहएव ॥ ३५२ ॥ ३५३ । परम्परायोगे तु न निषेधः। हरिश्च मे स्वामी ॥ ३५३ ॥ ३५४। न च दशनाथरचाक्षुषत्वे । चेतसा त्वामीक्षते वैष्णवः ॥ ३५४ ॥ ३५५ । परम्परायोगेऽपि न । कृष्णश्चेतसा तव रूपमीक्षते। ‘भक्तस्तव रूपं ध्यायति' इति तु तस्यां विचार्य, दर्शनार्थधातुयोगाभावात् । चाक्षुषत्वे तु -- कृष्णस्त्वा पश्यति ॥ ३५५ ॥ कृतम् । कृष्णैकेति- कृष्ण एको मुख्यः केवलो वा शरणं रक्षिता यस्य, एवंभूतस्यास्य तव कुतः कस्माद्यमिति । ‘एके मुख्यान्यकेवल' इति नानार्थवर्गः । ३५२। न च । चादिभिर्योगे ते विरिंचयो न भवन्ति । मम चेति-अत्र च-शब्देन सह साक्षात् सम्बन्धः, सौख्याय सुखाय भवत्विति शेषः । शमण- सुखाय ।। ३५३ । परम्परा । चादिभिः सह परम्परायोगे साक्षात् सम्बन्धाभावे तु निषेधो न भवति । ३५४ । न च । दर्शनायैर्योगे ते विरिंचयो न भवन्ति ; अचाक्षुषत्व इति-चाक्षुषत्वेतु निषेधो न भवतीत्यर्थः। त्वामीक्षत इति -त्वामनु भवतीत्यर्थः ।। ३५५ । पर । परम्परायोगेऽपि विरिंचयो न भवन्ति । कृष्ण इचतसा तव । रूपमीक्षते इत्यत्र दशनाथन न युष्मद योगः, किंतु तत् सम्बन्धिनो रूपस्य ; भक्तस्तव रूपं ध्यायतीत्यत्र विरिचिनिषेधो न भवतीति विचार्यम । पश्यतीति-निरूपयतीत्यर्थ ।