सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/१७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ कष्णनमप्रकरणम ३१३ । सर्वादीनि कृष्णनामानि । 'सर्वनामानि' इत्यन्ये । सर्व, विश्व ; उभ, उभय ; अन्य, अन्यतर ; ततर, ततम ; यतर, यतम ; कतर, कतम ; एकतर , एकतम ; इतर ; त्वत्, त्व ; नेम, सम, सिम ; पूर्व, पर, अवर ; दक्षिण, उत्तर ; अपर, अधर ; स्व, अन्तर ; (त्य छान्दसः) तद् यद्, एतद्, इदम्, अदस् ; एक, द्वि ; युष्माइ, अस्मद ; भवतु, किम् ॥ ३१३ ॥ तत्र पुंसि - सर्वःसर्व -- ३१४। कृष्णनाम-कृष्णतो जसः शीः। ग् इत्, सर्वे ; सर्वम्, सव, सर्वान् ; सर्वेण, सर्वाभ्याम्, सधैः ॥३१४॥ एकत्वे वर्तन्ते । तासामिति-तासां विंशत्याद्यानां संख्यानांआवृत्तौ पुन- गणनायाम् । एवमिति-यथा विंशतिवैष्णवा इति भवति, तथा एक- विंशतिवैष्णवा इति भवतीति । तदन्तत्वादिति-तदन्तत्वात विंशत्यन्त त्वात्, तथाचेयं व्यवस्था स्वीकर्तव्या, अष्टादशपर्यन्ताः संख्याः संख्येये वर्तन्ते, ततः पराः संख्याः संख्यानेचेति समासप्रकरणे वक्ष्यते, अतएव यदैते संख्येयवृत्तयो भवन्ति, तदा वैष्णवादिपदैः सहैषां विशेष्यविशेषणभावः। ततः संख्येयस्य बहुत्वाद्वहुवचने प्राप्ते एकवचनविधानार्थं सूत्रम् । यदा तु संख्यानवृत्तयोऽमी भवन्ति, तदा समुदायस्यैकत्वेन बहुवचनत्वाभावान्न बहुत्वप्रसङ्गः । अस्मादेव गोपानां विंशतिः, गोपीनां विंशतिरित्याद्यु- दाहार्यम् । आवृत्तौ यदा पुनरमी विंशत्यादाः संख्यानवृत्तयः स्युः, तदैकत्वे एकवचनं, द्विरावृत्तौ द्विवचनं, बहुधावृत्तौ बहुवचनं, सूत्रेण यद्वै ते संख्येयवृत्तयस्तदामीषां विशेषणत्वेनावृत्त्यभिधानशक्तिर्नास्त्यनभिधानादतो नहि भवति द्वे विंशती वैष्णवाःतित्रो विंशतयो गोप्य इत्येके । अस्माकं मते भवति किं नेति न निश्चिन्म इति । इति विशेषणलिङ्गा । ३१३ । सर्वा । संज्ञासूत्रमेतत् । कृष्णनामानि सर्वनामानि ।। ३१४ । कृष्ण। पुंस्येवायं विधिरिति ज्ञेयम् । अरामान्तः कृष्णसंज्ञ इति । ननु शीरित्यत्र, शिरिति कृते को दोष इति चेत् तत्रोच्यते-सवें इत्यादौ सर्वेश्वर-वैष्णवान्तयोर्नुम् श' इत्यस्य प्रवृत्तिशङ्का स्यात् ।