सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/१७०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२यः ३०६-३१२] विशेषणलिङ्गाः १३६ 4-4AAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAAA ३०९ । केचिच्छब्दा विशेषणत्वेऽपि स्वलिङ्ग न त्यजन्ति । यथा- प्रधानं कृष्णः, प्रधानं राधा, गतिः कृष्णः, आश्रयो राधा इत्यादि ॥ ३०६ ॥ ३१० । एकस्य विशेषणस्य विशेष्यमनेकञ्चेत्, प्रत्येकं वा समुदायस्य वा संख्यानुरूपं बचनम् । चार्थस्य समुच्चयेतरेतरयोगभेदेन द्व विध्यात्; यथा रामः कृष्णश्च सुन्दरः, रामः कृष्णश्च प्रत्येकमित्यर्थः ; सुन्दरौ वा, रामः कृष्ण इति द्वावित्यर्थः। तदिदं रामकृष्णसमासे विवरणीयम् ॥ ३१० ॥ ३११ । क्वचिद्वहूनां विशेषणत्वेऽप्येकत्वम् । यथा-धर्मो वेदाः प्रमाणम् इत्यादि॥ ३११ ॥ ३१२ विंशत्याद्याः सदैकत्वे अनावृत्तौ । विंशतिवष्णवाः। तासामेवावृत्तौ तु—दु विंशती, तिस्रो विंश तयः। एवम् एकविंशतिः इत्यादि ; तदन्तत्वादूनविंशतिश्च । तत्र विशेषणशब्देषु कृष्णनामाख्यशब्दा उच्यन्ते ॥ ३१२ ॥ । ३०६ । केचित् । केचिदिति-स्वलिङ्ग न त्यजन्तीति तेषां तादृश स्वभावत्वादिति शेषः ।। ३१० । एकस्य । एकस्य विशेषणस्य यदि अनेक विशेष्यं भवति, तदा प्रत्येकं समुदायस्य वा संख्याया अनुरूपं वचनं भवति, विशेषण इति शेषः । हेतुमाह चार्थस्येति-चार्थस्य च-शब्दार्थस्य ; वैविध्यात् द्विविध त्वात् । रामः कृष्णश्च सुन्दर इत्यत्र च-शब्दः समुच्चयार्थः । तदिदमिति तदिदं चार्थविवरणं रामकृष्णसमासे विबरणीयं-विस्तार्य कथनीयम् । ३११ ।। क्वचिद्। सुगमम् ।। ३१२ । विंश । बहूनां विशेषणत्वेऽप्यनार्जुनौ विंशत्याद्याः सदा।

  • आपः सुमनसो वर्षा अप्सरःसिकताः समाः।

एते स्त्रियां बहुत्वे स्युरेकत्वेऽप्युत्तरे त्रयः । ।