१३८ श्रीहरिनामामृतव्याकरणम् [ २यः ३०६३०८ - - - - - - - - - - - - - - - - ३०६। समानाधिकरण-विशेषणरूपा विशेष्यलिङ्ग विष्णुभक्ति-वचनानि भजन्ते । ३०७। जातिगुण-क्रियाद्वारा यस्य विशेषः कथ्यते, तविशेष्यं ; येन तस्य विशेषः कथ्यते, तद्विशेषणम् । यथा--गोपः कृष्णःगोपी राधा, क्षौमं वसनम्, श्यामः कृष्णः गौरी राधा, पीतं वसनम्, विहारी कृष्णः, बिहरिणी राधा, विहरि गोकुलम् इत्यादि ॥ ३०४-३०७ ॥ ३०८। अव्ययविशेषणं ब्रह्म। यथा – महत् स्वः ॥ ३०८ ॥ ३०६ । समाना। समानमेकमधिकरणं यस्य तत्समानाधिकरणं तच्च तत् विशेषणञ्चेति समानाधिकरणविशेषणं, तदेव रूपं स्वरूपं येषां त इति । अथवा समानमेकमधिकरणं येषां ते समानाधिकरण ; विशेषणमेव रूपं स्वरूपं येषां ते विशेषणरूपाः । समानाधिकरणाश्चमी विशेषणरूपाश्चेति समानाधिकरण-विशेषण-रूपाः । विष्णभक्तेर्वचनानि विष्णुभक्तिवचनानि, लिङ्गानि च विष्णुभक्तिवचनानि च लिङ्गविष्णुभक्ति वचनानि, विशेष्यस्य लिङ्ग विष्णुभक्तिवचनानि, विशेष्यलिङ्ग-विष्णु भक्ति-वचनानि ; समानाधिकरणविशेषणरूपाः शब्दा विशेष्यस्य लिङ्ग- विष्णुभक्तिवचनानि भजन्त इत्यर्थः ।। ३०७ । जाति । विशेष्यलक्षणमाह-जातीति । जाति द्वारा, गुण- द्वारा, क्रियाद्वारा च । विशेषणलक्षणमप्याह येनेति । तस्येति-विशेष्य स्येत्यर्थः । उदाहरणं दर्शयति यथेति ; क्षौममिति-क्षौमं दुकुल मि' त्यमरः ।। ३०८ । अव्यय । अव्ययस्य विशेषणं ब्रह्म भवति । स्वरिति स्वशब्दोऽव्ययं स्वर्गवाची, स्वरव्ययमि’त्यमरः ।।
- विशे अस्य हि यल्लिङ्ग विभक्तिवचने च ये ।
तानि सर्वाणि योज्यानि विशेषणपदेष्वपि ।