२यः २८६ ] विष्णुजनान्ताः पुरुषोत्तमलिङ्गाः १२७ वच्धातोविव-विवक् बिवग्, विवक्षौ । ‘दह-धातोदिधक्षु दिधक् दिधग्, दिधक्षौ, दिधक्षः। दिश्यादीनां –दिदिक् ; दिदृक् ; पिस्पृक्। मन्यन्ते च तदिदं पाणिनीयाः । कालापास्तु घकार- चवर्गस्थानिकादन्यस्य षढ़ादि-स्थानिकस्यापि कस्य लोपमाहुः; तेन ‘विवीःइत्याहुः । ‘पिस्'धातोः सरामान्तः सुपिस् ; ‘तस' धातोः सुतुस्-सुधीः, सुपिसौ, सुपिसः ; सुतूः, सुतुस, सुतुसः ; षत्वम् सुपीषु, सुतृषु। उरुश्रवस् -‘अत्वसन्तोद्धबस्य (नि ' प्र° २५८) इति त्रिविक्रमः उरुश्रवाः, उरुश्रवसौ, उरुश्रवसः ; उरुश्रवोभ्याम् ; उरुश्रवःसु ; हे उरुश्रवः ! एवं ‘विष्टरश्रवस्, ‘वेधस्’ इत्यादि । अथ दोष् उणादिप्रत्ययान्तः-दोः, दोषौ, दोषः; दोषम्, दोषौ ॥ २८६ ॥ षढोः कः स' इति ढस्य कः, षत्वम् । विवक्षिति-वचपरिभाषणे सन्, द्विर्वचनं , नरारामस्येरामःचवर्गस्येत्यादिना चस्य कः, षत्वम् । दिधक्षिति दह भस्मीकरणे सन्, द्विर्वचनं, नरारामस्येरामः ; दादेस्तु धातोर्घ इति हस्य घः, जवर्ज-हगिदादेरित्यादिना दस्य धः, यादवमात्रे हरिकमलमिति घस्य कः, षत्वम् । दिदिगिति-दिदिक्ष शब्दस्य रूपम्, विदिक्षिति-दिश अति सर्जने सन्, द्विर्वचनं ; यशोराजेत्यादिना शस्य षः, षढोः कः स इति षस्य कः, षत्वम् । दिदृगिति-दिदृक्षशब्दस्य रूपं दिदृक्षति, दृशिरप्रेक्षणे सन् , द्विर्वचनं, ‘नर ऋरामस्याराम' इति नरऋरामस्यारामःनरारामस्येरामः छशोराजेत्यादिना शस्य षः, ततः षस्य कः षत्वम् । पिस्पृगिति- पिस्पृक्षशब्दस्य रूपं, पिस्पृक्षिति-स्पृश संस्पर्शी सन्, द्विर्वचनं, नरऋराम स्यारामःनरारामस्येरामःशस्य षः, षस्य कः, षत्वम् । मन्यन्ते चेति, तदिदं मत पाणिनयारच म यन्ते इति । कालापास्त्विति-घकारचवर्गस्थानीयात् ककारादन्यस्य षडादिस्थानीयस्यापि ककारस्य लोपमाहुः ; नतु क्षकारस्य संयोगादिलोपे डकारककारविधानं, तेन ते विवीरित्याहुः। विवीरिति विशविषलु धात्वोः सनन्तस्य विविक्षधातोः विववन्तस्य रूपम्, अत्र ककारः यकारस्थानीयः । तन्मते क-लोपे कृते सनः सस्य पूर्वं यत् षत्वं विहितं, तस्य पदान्तत्वानिवनिर्भवति, ततः सस्य रः, ततो दीर्घःरस्य विसर्गः। षत्व
पृष्ठम्:Harinamamrita vyakaranam.pdf/१५८
दिखावट