सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११८ श्रीहरिनामामृतव्याकरणम् [ २यः २६४ स्त्रादयः । कुरादिनिषेधान्नाम्नोऽन्यत्रापि ज्ञेयम् । ततः शसि प्रतिदीव्नः ; प्रतिदीव्ना । अरामहरस्य निमित्तत्वं मत्वैवात्र त्रिवि क्रमविधानं, ततो नासिद्धत्वम् । प्रतिदिवभ्याम् ; तदेतत् प्रक्रिया कौमुद्यादौ ( पा° ८२२) । अन्ये तु ‘प्रतिदीव्न नस्य विष्णसर्गा विष्णुपदान्तेइति मन्यन्ते प्रतिदिनः, प्रतिदिवोभ्याम् ॥ २६४ ॥ कुर्-छर् नामधातूनां त्रिविक्रमो न भवति । अतः कुर्वः कुर्मः कुर्यादित्यादौ छ यंत इत्यादीनामधातौ दिव्यति चतुर्यतीत्यादौ, व्यतिरेकेण कुक्कुरायत इत्यादौ च त्रिविक्रमो न भवति । न च । तद्धित-येच परे त्रिविक्रमो न भवति, अतः धुएँ इत्यादौ त्रिबि क्रमाभावः। रवत इति स्पष्टार्थम्, अन्यथा येन न व्यवधानं सम्भवति, तेन व्यवधानेऽपि स्यादिति न्यायेनान्यव्यवधानेऽपीति प्रतिदिवानावित्यादौ त्रिविक्रमशङ्का स्यात्, किञ्च स्थान्यंशेऽनयोः सद्भावे एव निमित्तांशे सद्भाव उचितो, विपरीते तु विपरीतस्तदन्वयव्यतिरेकानुविधानात्, एवं निमित्तांशेऽपि योज्यं, तस्मादनयोः परतः परतनि विष्णुजने सति अनयोः पूर्वस्मिन् धातोरितोस्त्रिविक्रमो भवति, नान्यव्यवधानेन । र-वप्रागिति किं ? विध्यति, बुध्यति । धातोरिति किं ? निर्गुणः, चतुर्धा, वलिव्यवसितिः, गुरुव्यवस्था, दुरित्यादौ न त्रिविक्रमेण भाव्यं, कुरादिगण पठनानुरोधात्, तथा उब्ज क्विप्, उप् उब्भ्यां, तृण्, उद्विजतेत्यादौच रराम- साहचर्यादन्तस्थस्यैव ग्रहणादस्य त्वौष्ठ्यत्वात् न । विष्णुजन इति किं ? प्रतिदिवानौ । अत्रेति- अत्र धातुसम्बन्धिलक्षणे विष्णुजनस्य पाठात्। विष्णुजनवर्णमात्रं गृह्यते । नाम्नोऽन्यत्रापि ज्ञेयमिति, दीव्यतीत्यादौ त्रिविक्रमो भवति-अरामहरस्येति । प्रतिदीव्न इत्यादौ अरामहरस्य निमि- त्तत्वं मत्वैव त्रिविक्रमविधाणं कृतमिति क्वचिदन्तरङ्गइत्यादिन्यायेन अरामहरस्य नासिद्धत्वम् । तदिति-तदेतद दशितं रूप मतं वा प्रक्रिया कौमुद्यादौ सम्मतमिति शेषः । अन्येतु प्रतिदीव नस्य विष्णुसणं विष्णु पदान्त इति मन्यन्ते, तन्मते प्रतिदिवाः प्रतिदिवोभ्यामिति, प्रति दिवा इति, प्रथमतस्त्रिविक्रमस्ततः सोर्हरस्ततो नस्य विष्णुसर्गः ।