सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

११२ श्रीहरिनामामृतव्याकरणम् [ २यः २५७-२५८ विश्वसृजः। षत्वं न इति केचित्–विश्वसृक् । विश्वसृट्सु । कंसजित्कंसजितौ, कंसजितः ; कंसजिह्वयाम्कंसजित्सु । उरामानुवन्धो ‘महतु’ । तस्य पुंसि नान्तधातुबजत-(वि' प्र' २२) इति त्रिविक्रमः ; ‘अचश्चतुर्मुज-(वि’ प्र° २४१) इति नुम् ; सोर्हरः सत्सङ्गान्तस्य हरः ; अत्राकरणात्, ‘क्वचिदन्तरङ्ग’ इत्यादि वक्ष्यमाणन्यायात्, ब्रह्म शान्तान्नु' (वि प्र° २३३) इत्यत्र ज्ञापकेन सर्वेश्वरेण त्वागम-नराम-हराभावस्य नाम्नि निश्चयात् नस्य हरो न स्यात् – महान्महान्तौ, महान्तः ; महान्तम्, महान्तौ, महतः ; महता, महद्भयाम् ; हे महन् ! ॥ २५७ ॥ ‘भगवतु' २५८ । अत्वसन्तोद्धवस्य त्रिविक्रमो बुद्धबंजित- सौ, धातुं विना। भगवान् भगवन्तौ, भगवन्तः ; भगवन्तम्भगवन्तौभगवतः ; भगवता, भगवद्भयाम् ॥ २५८ ॥ २५७। रात् । रात् परस्य सत्सङ्गान्तस्य हरविधिर्भवन् सस्यैव भवति नान्यस्येत्यर्थः। नियमलक्षणमाह बहुत्रेति । सङ्कोचनं स्थापनविशेषेण स्थानम् । ननु महानित्यत्र नामान्तस्य नस्य हरीविष्णुपदान्ते बुदं विनेत्य नेन नस्य हरः कस्मान्नस्यादितिचेत्तत्र सिद्धान्तमाह-अत्राकरणादित्यादि । तत्रात्रेति यद्यत्र नस्य हरः स्यात्, तदानामान्तस्येति लक्षणमत्रैव विदध्यात् तस्मादत्राकरणान्न नस्य हर इति । क्वचिदिति । क्वचिदन्तरङ्गं क्रियमाणे कार्यं तदनिमित्तं बहिरङ्गमसिद्धं स्यादिति तत्रान्तरङ्ग कार्य नस्य हरः। बहि रङ्ग नुम्विधानं उभयाश्रितत्वात् । ब्रह्मशान्तादिति । नुकि कृते नामान्त- स्येत्यादिना तस्य हरेच कृते दधिभ्यामित्यादीनां सिद्धत्वात् सर्वेश्वरस्यो दृतत्वमतो ज्ञापकत्वम् । निश्चयादित्यनन्तरं च शब्द प्रयोग उचितः । २५८ । अस्व । अवतस्य असन्तस्य व सम्बन्धित उद्धवस्य त्रिवि क्रमो भवति ।