सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/१३९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१०८ श्रीहरिनामामृतव्याकरणम् [ २यः २४६-२४८ २४६ । अचोऽरामहरो भगवति, पूर्वस्य त्रिविक्रमश्च । ‘निमित्तापाये नैमित्तिकस्याप्यपायःइति न्यायेन यरामस्य इरामः ततस्त्रिविक्रमः प्रतीचःप्रतीचा ॥ २४६ ॥ २४७। पूर्वस्य विष्णुपदवत्त्वं स्वादितद्धितयोः रय- सर्वेश्वराद्योः । प्रत्यग्भ्याम् इत्यादि। चवर्गस्य' (वि' प्र’ २४४) इत्यादौ 'वैष्णव'ग्रहण केवलधात्वर्थम्, अन्येषामपि सूत्राणां तत्पर्यन्तव्याप्ते झुपकम् । एवं ‘प्राच्’ तथा ‘पित्रच्’ इत्यस्य शसि-पितृचः। ‘अनन्तस्यैव त्रिविक्रमः' इति तु तस्य भ्रमः, तदधिकारनिवृत्तेः। तिर्यच् तिर्यङ, तिर्यञ्चौ तिर्यञ्चः ; तिर्यञ्चम्, तिर्यञ्चौ ॥२४७ २४८ । तिर्यचस्तिरश्चिरुदच उदीचिर्भगवति । इराम इत् । तिरश्चः ; तिरश्चा, तिर्यग्भ्याम्, तिर्यगभिः। २४६ । अचोऽराम । निमित्ताय इति निमित्तमत्रारामः नैमित्तिको यरामः ।। २४७। पूर्वस्य । यसर्वेश्वरादिभिन्नयोः स्वादितद्धितयोः परयोः पूर्वस्य विष्णुपदवत्त्वं भवति । प्रत्यगभ्यामिति । विष्णुपदवत्त्वात् चवर्गस्येत्यादिना चरामस्य करामः विष्णुदासो विष्णुपदान्ते इत्यादिना करामस्य गरामः । ननु प्रत्यगभ्यामित्यादौ यदि विष्णुपदवत्त्वेनैव चवर्गस्य कवर्गः कृतस्तह चवर्गस्येत्यादौ वैष्णवग्रहणम् । किमर्थं कृतमिति चत्तत्राह चवर्गस्येत्यादाविति । चवर्गस्य कवर्गा विष्णुपदान्ते वैष्णवे त्वसवर्गे इत्यस्मिन् लक्षणे वैष्णवग्रहणं केवलधात्वर्थम् । अन्येषां नामज- विष्णपदसम्बन्धिनां सूत्राणामपि धातुपर्यन्तप्राप्तेझपकञ्च तथेति । तथा तेन पूर्वोक्तेन प्रकारेणेत्यर्थः पितृ च इति अचोऽरामहर इत्यादिना अराम हरे कृते निमित्तापाये नैमित्तिकस्याप्यपाय इति न्यायेन ररामस्य ऋराम स्ततस्त्रिविक्रमः । तदधिकारनिवत्तेरनन्ताधिकारनिवत्तः । २४८ । तियेच् । भगवति परे तिर्यचः स्थाने तिरश्चिर्भवति. तस्मिन्नेव परे उदचः स्थाने उदीचिर्भवति । क्रडष्विति ईश्वरहरिमित्र