२यः २३६-२३८ ] सर्वेश्वरान्ता ब्रह्मलिगाः १०३ दध्ना , दधिभ्याम्, दधिभिः; दध्ने, दधिभ्याम्दधिभ्यः इत्यादि। डो-दध्नि, दधिनि ॥ २३६ ॥ २३७ । ब्रह्मणो गोविन्दो वा बुद्धे । हे दधे ! हे दधि ! एवम् अस्थि, ‘सथि, ‘अक्षि। अति क्रान्त दधि येन यया वा-अतिदध्ना गोपालेन गोपाल्या वा। स्वभा वतो ब्रह्म व ‘दधिशब्दो गृह्यते ; ततो दधातीति . दधिः, तेन दधिना । इरामस्य' इति (वि' प्र' २३४) किम् ? पद्माक्षेण । वारि, वारिणी, वारीणि ; वारि, वारिणी, वारीणि ; वारिणा, वारिभ्याम्, वारिभिः; वारिणे इत्यादि ; वारीणाम् । मधु मधुनी, मधूनि ॥ २३७ ॥ २३८ । ब्रह्मान्त-त्रिविक्रमस्य वामनः । लक्ष्म्यामिति दध्या इति कृते को दोषः ? यतोऽतिगोपिना प्रियहर्या इत्यादौ समस्तत्वेऽपि पुरुषोत्तमलक्ष्मीवढ्यं स्यादिति चेत् सिद्धान्तमुच्यते दधि अस्थि सर्थि अक्षिशब्दानामित्यादौ ब्रह्मणीत्यविशेषणत्वेनाविधान सामथ्र्यादेतेषां टादिसर्वेश्वरे परे हरिसंज्ञत्वं न व्याख्यातम् । ततो न वाच्यानुसाररूपत्वमिति फलितार्थं स्यादेवेति भावः । अथोवा समस्त त्वेनान्यलिङ्गत्वेऽपि दधिशब्दस्य ब्रह्मत्वमस्त्येवेति वर्णेन विधौ तदन्तस्य कार्यं नाम्ना तु क्वचिदिति न्यायेन इरामस्यान् दधिनेति किप्रण्त्ययान्तो दधिशब्दः । पद्माक्षेणेति । पत्रे इव अक्षिणी यस्येति स्वाङ्गाभ्यामक्षि सकथिभ्यामित्यनेन केशवारामस्तद्धितः संसारस्य हरो भगवतीत्यनेन इरामहरः ।। २३७ । ब्रह्मान्त । गोकुलाभ्यामित्यादाविति वामनाप्राप्तौ हेतुमाह क्वचिदिति-क्वचिदन्तरङ्गकार्यं क्रियमाणे तन्निमित्तं वहिरङ्गमसिद्धं स्यादिति न्यायेन । अत्रान्तरङ्गकार्यं वामनः प्रकृत्याश्रितत्वात् त्रिवि क्रमविधानं वहिरङ्गम् । वहिरङ्गत्वं प्रतिपादयति त्रिविक्रमेति । उभया श्रितत्वेन हेत्वन्तरमप्याह तत्रेति ।।
पृष्ठम्:Harinamamrita vyakaranam.pdf/१३४
दिखावट