सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अथ सर्वेश्वरान्ता ब्रह्मलिङ्गाः तत्र अरामान्तो गोकुलशब्दः-- २२३ । ब्रह्मकृष्णात् सोरम् । ‘दशावतारादम्शसोररामहः (वि' प्र' १५६)-गोकुलम्; राधा- ब्रह्माभ्यामौ ई’ (वि प्र २११)-गोकुले ॥ २२३ ॥ २२४] ब्रह्मतो जस्शसोः शिः। श् इत् । एकवर्णत्वादन्ते प्राप्ते शित् सर्वस्य’ इति शिदादेशः सर्वस्य भवति ॥ २२४ ॥ २२५। सवदेवर-वैष्णवान्तयोर्नुम् श । उमावितौ ॥ २२५ ॥ २२६ । अन्त्यसर्वेश्वरात् परं मितः स्थानम् । २२७। अन्त्यात् पूर्ववर्ण उद्धव-संज्ञः । उपधा’ इति प्राञ्चः ॥ २२७ ॥ २२८ । अब्रह्मपाण्डवाः शिश्च कृष्णस्थान-संज्ञाः । ‘घु ’संज्ञा इत्येके; ‘सर्वनाम 'संज्ञा इत्यन्ये ॥ २२८ ॥ २२३ । ब्रह्म । मरामं न कृत्वा यदमिति कृतं तत् निर्जरसमित्यस्य सिद्धयर्थम् ।। २२४ । ब्रह्मतो। एकेति-एकवर्णविधिरन्ते प्रवर्तते इति यायेन, अन्ते प्राप्ते शित् सर्वस्येति शिदादेशः, सर्वस्य समुदायस्य स्थाने भवतीति अरामसहित सरामस्य स्थाने शिर्भवति ।। २२५ । सर्वेश्वर। शौ परे सर्वेश्वरान्तस्य वैष्णवान्तस्य च नुम् भवति । २२६ । अन्त्य । परिभाषासूत्रमिदम् ।। २२७ । अन्त्यात् । सुगमम् । २२८ । अब्रह्म । अब्रह्मपाण्डवाः पुरुषोत्तमलक्ष्मीपाण्डवाः। ।