सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२यः २२२] सर्वेश्वरान्ता लक्ष्मीलिंगाः शसि तु मातुः। ‘स्वसृ शब्दः कर्तुशब्दवत्-स्वसा, स्वसारौ' स्वसारः; शसि तु स्वसू :। 'रशब्दः स्त्रियामपीत्येके’ इति क्षीरस्वामी ; तेन पूर्ववत् । ‘गोशब्दः पूर्ववत् ; ‘द्योशब्दः ‘गो'वत् ; नौ शब्दः ग्लौवत् ॥ २२२ ॥ * इति सर्वेश्वरान्ता लक्ष्मीलिङ्गाः। आहुरिति पूर्वाचार्या इति शेषः। बह्वयः प्रेयस्यो यस्येति विग्रहे नचयस्याः पीताम्बर इति वामननिषेधः, कृष्णवाची बहुश्रेयसीशब्दः । अतिलक्ष्मीः रिति अतिक्रान्तो लक्ष्मीनिति विग्रहः। अवयवेति बहुश्रेयसीप्रभृतीनां अवय वस्य बहुश्रेयसीप्रभृतेः स्त्रीविषयत्वात् स्त्रीप्रतिपादकत्वात् नदीसंज्ञत्वं सिद्धमिति । बहुश्रेयसीप्रभृति री-प्रत्ययान्त वातप्रमीवदिति तु प्रक्रिया कारः। वध्विति । न सोर्हर इति विस्तरःगोपीसंज्ञत्वञ्च नेति विस्तरः। इदं मतं । धातुवदिति गोप्यौ गोप्यः गोप्यमित्यादि । नेच्छन्तीति पूर्वाचार्या इति शेषः । अतिश्रिये इति अतिक्रान्तः श्रियं अतिश्रीः तस्मै ; नात्र गोपीसंज्ञत्वम् । विश्वन्ये इति वाच्यलिङ्गत्वात् स्वाभाविकलक्ष्मीत्वाभावः । रौशब्द इति तेन तस्य रूपं पूर्ववत् ।। इति सर्वेश्वरान्ता लक्ष्मीलिङ्गाः * ।।