२यः २१६-२२० ] सर्वेश्वरान्ता लक्ष्मीलिंगा २१६। तिसृ-चतस्रो रः सर्वेश्वरे । गोविन्द-त्रिविक्रमोरामाणामपवादः। षत्वे केवलसरामो विरिञ्चि गृहीतः। तिस्रः, तिस्रःतिसृभिःतिसृभ्यः, तिसृभ्यः ; आमि तु न तिसु-चतस्रोः (वि' प्र' १६९ )इति ज्ञापकात् नुडु व- तिसृणाम् तिसृषु ॥ २१८२१६ ॥ ईरामान्तो ‘गोपी' शब्दः ; ईबिति लक्ष्मीविहितप्रत्ययः -- २२० । ई-ऊ-लक्ष्मीर्गोपीसंज्ञा । 'नदी-संज्ञा च । गोपी, गोप्यौ, गोप्यः ; गोपीम्गोप्यौ, गोपीः ; गोप्या, गोपीभ्याम्, गोपीभिः ; गोप्यै, गोपीभ्याम्, गोपीभ्यः ; गोप्याः गोपीभ्याम्, गोपीभ्यः ; गोप्याः गोप्योःगोपी नाम्, गोप्योः गोपीषु ; हे गोपि ! अत्र वामन विधानसामथ्र्यान्न २१८ । लक्ष्मी । लक्ष्मीस्थयोर्लक्ष्म्यां वर्तमानयोः । २१६ । तिसृ । तिसृचतमिति समाहात्तिसृ। 'एकवणं विधिरन्ते प्रब र्तते इति न्यायेन ऋरामस्य स्थाने ररामो भवति । गोविन्देति ऋरामस्य गोविन्दः पाण्डवेषु ङौ चेत्यनेन गोविन्दः स्यात् । दशावतारस्य त्रिवि क्रमः शसीत्यनेन त्रिविक्रमः स्यात् । ऋरामतो ङसि ङसोरस्य उच् इत्यनेन उरामः स्यात् ; तेषामपवादो बाधकोऽयं ररामः । प्रियास्तिस्रो यस्मिन् तस्मात्तस्य वा प्रियतिस्र इत्यतो रराम न स्यात् । ननु तित्र इत्यादिषु विरिञ्चिसस्य षत्वं कथं न स्यादिति चेत्तत्राह षत्वमिति । केवल-सरामो यत्र विरिञ्चिस्तत्र षत्वं । अत्रतु तिसृविरिञ्विरिति न षत्वम। नत्वामितितिसृणामित्यत्र यरामः कथं न स्यादिति चेत्तत्राह आमित्विति, यद्यत्र रामः स्यात्तहि न तिसृचतस्रोर्लक्षणं निरर्थकं स्यात्त स्मादत्र नुड़ व भवति नतु ररामः ।। २२०। ई ऊ । ई ऊ लक्ष्मीः ईरामोरामान्तलक्ष्मीरित्यर्थः । ननु हे गोपीत्यत्र हरेगोविन्द इत्यादिना गोविन्दः कस्मान्न भवतीति चेत्त त्राह । अत्र वामनेति । यद्यत्र गोविन्देन भाव्यं तदा बुद्ध वामनविधान
पृष्ठम्:Harinamamrita vyakaranam.pdf/१२६
दिखावट