२यः २१५-२१६ ] सर्वेश्वरान्ता लक्ष्मीलिङ्गाः ६३ जरा, जरसौ जरे, ‘जरसी’ इति केचित्, जरसः जराः; जरसम् जराम् इत्यादि। एवमरामान्त निर्जरशब्दस्यापि जरेतिभागस्य विकल्पेनादेशो ज्ञेयः ; ‘वर्णेन विधौ तदन्तस्य कार्यं स्यान्नाम्ना तु क्वचित्' इति, ‘निदश्यमानानामादेशिनामादेशाः ' इति, 'एकदेशविकृत मनन्यवत्' इति च न्यायेभ्यः—निर्जरसौ निर्जरों, निजं रसः निर्जराः इत्यादि ; निर्जरेण निर्जरसा, निर्जरसिन' इत्येके ; निर्जरैः निर्ज रसैः, निर्जरात् निर्जरसः, निर्जरसात्' इति केचित् । विश्वपा' पुरुषोत्तम- विश्वपा शब्दवत् ॥ २१५ ॥ २१६ । अत्र निशानासिकयोनिश्नसावादेशौ यदुषु वा वाच्यौ, प्रयोगाश्च पक्षे विष्णजनान्तवजज्ञ याः । यथा निशः निशाःनिभ्यामित्यादि। इरामान्तो ‘भक्ति शब्दः। तस्य पाण्डवेषु ‘हरि' शब्दवत् ; शसि-भक्तीः ; ‘पॅसि' (वि' प्र' १५७) इति विशेषणान्नरामो न स्यात् । न तु लक्ष्म्याम्(वि' प्र' १८२) इति न नादेशः--भक्त्या, भक्तिभ्याम्, भक्तिभिः ॥ २१६ ॥ वर्णेनेति विधौ विधाने सूत्रे येन वर्णेन यत् कार्यं विधीयते, तत्कार्यं तद्वर्णान्तस्यापि भवतीति सर्वत्र। येन नाम्ना यद्विधीयते, तत्तन्नामान्त- स्यापि भवतीतितु क्वचिदिति न्यायार्थः । तदन्तस्येत्यत्र सवर्णः अन्ते यस्य इति विग्रहेण पीताम्बरसमासे कृते सति, तस्य तद्गुणसम्विज्ञानमनेन उभयपदस्य तत् कार्यं स्यात् । अतद्गुणसम्विज्ञानस्वीकारेण पूर्वपदस्य तत कार्यं स्यादिति विरोध प्राप्ते 'यावत सम्भवस्तावद्विधिरिति न्यायेन अन्तर्भूततद्वर्णस्यैव तत् कार्यं स्यादिति । अथवा स एव वर्णः अन्तः तद्वर्णान्त इति श्यामरामे कृते न कश्चिद्दोष इति । अतएव ग्रन्थकारेणा युक्तं जरेति भागस्यति । एवं तन्नामान्तस्येत्यत्रापि ज्ञेयम् । निदिश्येति इत्येवम्प्रकारेण निर्दिश्यमानानां आदेशिनां स्थाने आदेशभवन्त्येवेति शेषः । अत्रादेशी जराशब्दः । एकदेशति स्पष्टार्थमेव । केचिदिति क्रमदीश्वरादय इत्यर्थः ।।
पृष्ठम्:Harinamamrita vyakaranam.pdf/१२४
दिखावट