सामग्री पर जाएँ

पृष्ठम्:Harinamamrita vyakaranam.pdf/१०३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

७२ श्रीहरिनामामृतव्याकरणम् [ २यः १५५ ‘प्राङ्-निमित्तं’ तथा ‘कार्या’ ‘कार्यं’ ‘परनिमित्तकम्'। अत्र क्रमेण वक्तव्यं प्रायः सूत्रषु सर्वतः । क्रमाच्च पच्छमी षष्ठी प्रथम सप्तमी तथा। क्वचित् परनिमित्तस्य स्थाने ‘विषयसप्तमी ॥ कायंपूवं पञ्चमी स्यात्, कायस्थाने तु षष्ठिका। कायं तु प्रथमा वाच्या, सप्तमी विषये परे ॥ विना-योगे निषेधार्थं द्वितीया क्वचिदिष्यते । सर्वाङ्गासम्भवो यत्र स्वल्पान्यङ्गानि तत्र तु ॥ अतो वालकवोधाय पदं विच्छिद्य मूर्धनि। अझ देया विष्णुभक्तिव्यक्त्यर्थं सर्वसूत्रतः ॥ यथा ‘स-र-रामयोःइति कार्य स्थानं‘विष्णुसर्गःइति कार्य , ‘विष्णपदान्तः विषयः । परनिमित्तं पूर्वनिमित्तञ्चात्र नास्ति ; तत्तच्च यथा—‘इद्वयमेव यः सर्वेश्वरे’ ( स' प्र' ५३ ) इत्यत्र पर निमित्तं सर्वेश्वरः ; ‘ततः शकुछ वा' ( स' प्र' && ) इत्यत्र पूर्व निमित्तं विष्णुदासः ; ‘विष्णुजने' ( स' प्र' १२० ) इत्यादौ हरो विना’ इति तौ निषिद्धौ । क्रियते, एतत्तु एतत् प्रकरणपरं बोद्धव्यम् । अन्यथा अधिकारे स्वीकृते सति अज्ञप्रवोधनी भिन्ना पृथक् प्रक्रिया मृग्येत मृग्या स्यादित्यर्थः । प्रांनिमित्तमिति अत्र ग्रन्थे प्रांनिमित्तादिकं प्रायः सर्वतः सर्वेषु सूत्रेषु क्रमेण वक्तव्यम् । प्रांनिमित्त कायि कार्यं परनिमित्तानि सर्वसूत्रेषु न सन्तीति प्रायःशब्दोपादानम् । प्रानिमित्तमित्यत्र परनिमित्तमित्यत्रच श्यामरामः समासः कर्तव्यः । परनिमित्तकमिति स्वार्थे क-प्रत्ययः । क्रमाच्चेति पञ्चमी षष्ठी प्रथमा सप्तमी च सर्व सूत्रेषु क्रमात् वक्तव्येति शेषः । पञ्चम्यादयो वक्तव्या इत्युक्तं, कुत्र का वक्तव्या इत्यपेक्षायामाह कार्यपुर्व इति कार्यपूर्वं प्राङ्गनिमित्ते पञ्चमी वाच्या स्यात् । कार्यस्थाने कायिणि, क्वचित् परनिमित्तस्य स्थाने विषयसप्तमीति यदुक्तं तदेवाचष्टे विषय इति । । विना। अङ्गशब्देनात्र प्रानिमित्तादिकमुच्यते । अतः ।