एतत् पृष्ठम् अपरिष्कृतम् अस्ति
ओं नम: परमात्मने । श्रीगान्धिचरितम् । अथ प्रथमः परिच्छेदः । -- -- ~• €r2 + =" + --- ----- महात्मेति समाख्यानं यस्येह विदितं भुवि । लोकोत्तरं च चरित्रं स वाचां विषयोस्ति नः ॥१॥ महितो यश्च लोकस्य महतोऽमहतोपि च । आकुमारं यशो यस्य स वाचां विषयोस्ति नः ॥२॥ योभ्यस्यति कला को धर्म सूनुरिवापरः । आसिधरं व्रतं तीव्र स वाचां विषयोस्ति नः ॥३॥ ब्रह्मक्षत्रे विशश्शद्रा अन्त्यजश्श्वपचा अपि । आत्मैवाभून्घ्नेर्णस्य स वाचां विषयोस्ति नः ॥४॥ महेश्वरे परं श्राद्धः परं सद्योगमास्थितः । योऽपकरोद्भियं सर्वां स वचां विषयोस्ति नः ॥५॥ यो न हृष्यति संपया विपया च न दुःरूयति । शुभोदर्कः क्रियाः कुर्वन्स वचां विषयोस्ति नः ।।६। स्तुतिनिन्दे अनादृत्य लोकसङ्ग्रहतत्परः। इच्छति ब्रह्मभूयं यः स वाचां बिषयोस्ति नः ।।७।।