पृष्ठम्:Gandhi charitam sanskrit book.pdf/55

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः परिच्छेदः । ४९ आक्रम्येरन्निति भीरण्याविरासीत् । परमाश्रमरस्था एवं दुःखं निर्वहन्तोऽपि मनागपि नान्यथन्त । यदाश्रमस्थाः सर्वे बन्दीकृत्य कारां प्रवेशितास्तदा यो हन्नसबर्गीयाणामुत्साहो नै वपुषि प्राभवत् अभिव्यापिका स्त्रियोऽपि नाम कारावासमभिलषुका कार्यनिवृत्तिः अभूवन् । थाम्बीनायकस्य सर्वः पोष्य वर्गऽस्मा आरम्भायोदयुङ्त । एतद्वर्गायाः श्रियः शिशून् क्रोडीकृत्य गृहान्निर्गत्यान्याभिः स्त्रीभिः सगत्य सर्वगतायै कार्यनिवृत्तये श्रमिण जनान् प्राचोदयन् । ताः सर्वाः समवेत्य न्यूकैसल् ( अभिनवसौधम् ) इतिनामाने संवसथं संगत्य तत्रत्यश्रमिणां सहधर्मिणीः सम्यगनुशिष्य श्रमिणः कार्य विसर्गं प्रति प्रेरयन् । अढूर्यपश्य अवगुण्ठितवदना याः कुलाङ्गनाः सोथेंबहीं शय्यामन्तरेण स्वायं नापन् , ता विषह्य क्लान्ति विजित्य लज्जां सर्वेषां साम्मुख्यमादधुः । ताभिः प्रयुक्ताः श्रमिणैः कार्यनिवृत्तिं प्रतिपन्नाः । इतरत्रापि सर्वत्र


१-१ तनौ नामात् इत्यर्थः । गुरुः प्रहर्षः प्रबभूव नात्मनि इति रघौ । २ अभिलषणशीला इत्यर्थः । लषपतपद---इत्यादिना उकञ्। अत एव । न लोकव्ययेति षष्ठीनिषेधे कारावासम् इति द्वितीयान्तम् । ३ प्रसूर्यललाटयोईशितपोः इति खश । ४ सोपधानामित्यर्थः । उपधानं तूपबर्हः–इत्यमरः । । ५ शमियष्टाभ्यो धिन् । श्रमितुं शीलमेषां ते । == - + " + • • • • •