पृष्ठम्:Gandhi charitam sanskrit book.pdf/53

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

द्वितीयः परिच्छेदः । । ४७ शिल्पालयाधीशा अस्मिन् विषय माध्यस्थ्यमभजन्त । श्रमिण श्वानेकैरुपायैरनारतमबाधन्त । एतत्समीक्ष्य महात्मा सर्वान् श्रमिणः फिनिक्साश्रमं प्रति गमनमाज्ञापयत् । एवमाज्ञप्तास्ते । तमाश्रमं प्रत्यपद्यन्त । अनेनधुनातनः सत्याग्रहोद्योगोऽभूत- पूर्वो भीषणतां प्रापत् । यदा पुरुषाः स्त्रियो बालाश्च विधानम- तिक्रमितुं संनह्यास्मादश्रमान्निरक्रामंस्तदा तीर्थ यियासूनां । यात्रिकाणां कश्चिन्महन् सर्थ इखालोक्यत । सर्वो लोके इदं धर्यमायोधनमित्यमन्यत । तदत्वे तैर्गीयमानं--वीराः ! अच- गणय्य सुखदुःखे कर्तव्ये कर्मणि प्रसिता भवतेत्याशयं गीतं । श्रोतृणां मनांस्यावर्जयत् । अस्य सङ्घस्य प्रधाननायका रुस्तम जिरितिसंज्ञः कश्चित् पारसीक आसीत् । प्राप्ते सत्याग्रहाच- सरे पितपुत्रयोर्मध्ये विधानातिक्रमेण कतरः प्रथमं कारामा प्नुयादिति विषये वैमत्यमासीत् । तत्पुत्रः सोरावजिरित्थं समबूबुधत्-तात ! भवान् स्थविरः, अतो हेऽवस्थाय तत्सम्बन्धीनि कार्याण्यवेक्षताम् । इदानीमहं सत्याग्रहमास्थास्या मीति । रुस्तमजिरेवं प्रत्यभाषत-प्रियतनूज ! अभिनववया १ ताटस्थ्यम् । अनास्था इत्यर्थः । तथा च कुमारे प्रयोगः अभ्यर्थनाभङ्गभयेन साधुर्माध्यस्थ्यमिष्टेष्यवलम्बतेऽर्थे । इति । २ सङ्घ इत्यर्थः । अयं प्राणिनामेव संघे वर्तते । संघसार्थं तु जन्तुभिः ३ जन इत्यर्थः । लोकस्तु भुवने जने--इत्यमरः । ४ आनङ् ऋतो द्वन्द्वे इत्यानङ् ।