पृष्ठम्:Gandhi charitam sanskrit book.pdf/22

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१६ श्रीगान्धिचरिते स्व तं नियोगतः प्रत्यहमुपदिक्षत् । एतावन्मात्रया विलास प्रवृत्या श्रीगान्धिनश्चेतः कदाचिदस्वास्थ्यमभजत् । मातुर्वच श्चिन्तयमानस्य तस्य मनसो वैयघ्यमभवत् । तेन च नृत्यतो- ऽस्य स्खलनं गायतो वैखर्यं च समवर्ततम् । पर निरन्तरं प्रयतमानेन मया सभ्यत पुराधिगम्यंत इत्याशंसा तमा श्वासयत् सभ्येन मानवेन व्याख्यानकलाकोविदेन भाव्यमिति प्रत्य- यितः श्रीगान्धी बेल् इति नामानं वाग्गिमनं गुरुमभ्यगच्छत् । व्याख्यानकलां चाभ्यास्यत् । एतदभ्यासनिरतस्यास्यैकपदे मोहो नष्टः प्रबोधश्चोन्मिषितः। स आत्मन्यचिन्तयत्-न मया यावज्जीवमाङ्गलदेशे वस्तव्यमस्ति । व्याख्यानपाटवमधिगत्यापि किमहं करिष्यामि । नते नतं कथक्केर सभ्यतां चाप्स्यामि । वीणादिवादित्रवादनं तु स्वदेशेपि शक्तोमि शिक्षितुम् । अहं च विद्यार्थी । अतोहमनन्यमना विद्यामुपादैदीय स्ववृत्तियोग्यत्वं च सम्पादयेयेत्येव साम्प्रतम् । सद्वृत्तमहिम्नैव मामयं लोकः सभ्यमाकलयेदिति कामयेय नो चेत्कृतमनया सभ्यतयेति । इत्थं लब्धप्रबोधः श्रीमोहनदासः प्रतीच्यां सभ्यताम १ यावत्पुरानिपातयोर्लट् इति पुराशब्द उपपदे वर्तमानसमीपे भविष्यति लट्प्रत्ययः । २ अन्यथैवंकथमित्थंसु सिद्धाप्रयोगश्चेत् इति करोतेर्णमुल् । ३ अहं कृत्यतृचश्च इत्यॐ कर्तरि लिट् ।