पृष्ठम्:Gandhi charitam sanskrit book.pdf/168

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

श्रोगान्धिचरिते जालमेभ्यश्च स्वगृहाणि रक्षितुं वा न क्षमामह इति । इयमा ध्यात्मिकी नो विनष्टिः । चतुर्विधस्य निरुक्रस्यानर्थस्यापादयितुर्वस्तुक्रमस्य याऽऽ नुवृतिस्तद्देवेषु मत्र्येषु चाग इति दृढं मन्यामहे । परमिदम भ्युपेम: स्वातन्त्र्यावातेः साधकतमं करणं प्रमाथो नेति । श्रतो वर्तमानेन राज्यतन्त्रेण प्रवृत्तं वयं सर्व कामतः संसर्ग यावच्छक्यं परिहृत्यात्मानं संनत्स्यामहे । संनत्स्यामहे च िनः प्रमाथाय शासनातिक्रमाय कराप्रदानाय च । वयं प्रतीमो यदि वयं सत्यामप्युत्तजनायां प्रमाथमनास्थाय यादृच्छिकं साहायकमेव संहतुं शक्यार्महे करप्रदानं च विरमयितुं ध्रुवं नश्धारिताथ्र्यमिति । श्रतो वयमिह दृढं प्रतिजानीमहे ऽन्तराऽन्तरा काङ्ग्रेसेन करिष्यमाणान्पूर्णस्वराज्यावाप्तिः हितान्निदेशान्वयमनुविधास्याम इति काङ्ग्रेसनिदेशवर्तिनः कोटिशो जना नियतेऽहनि नगरेषु निगमेषु ग्रामेषु च निर्दिष्टेषु प्रदेशेषु संनिपतिताः । सर्वत्रा स्मिन्देशे प्रादोषिक्यां पञ्चनादमितायां वेलायामयमुपन्यासो वाचयितुमारभ्यत । समुदितो जनब्रातः परमादरेण सर्व माकरैयत् सांमत्यं च प्राकाशयत् । सर्वत्र चन्द्रशालासु १ शक विभाषितो मर्षणे इति दैवादिकाद्धातोर्लटि रूपम् । २ निदेश श्राज्ञा । अववादस्तु निर्देशो निदेशः शासनं च सः -- । इत्यमरः । ३ चन्द्रशाला शिरोगृहम् इति कोषः ।