पृष्ठम्:Gandhi charitam sanskrit book.pdf/३५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् परिष्कृतम् अस्ति


                          द्वितोयः परिच्छेदः ।

द्धव्यम् । किं च । मम मौत्किकेसरे कीद्य्शस्तवाधिकार इति प्रेयस्कामा श्रीकस्तूरबाईः स्माह ।

   किमेष मत्सेवानिमित्तं त्वयालाभि स्वसेवानिभित्तं वेत्ति श्रीगान्धीं द्य्ढमप्राक्षीत् ।
   श्रस्तु तत्तथाऽन्यथा वा । किं त्वगदीयायां सेवायां ममाङ्गब्भावो नास्ति । यन्मां रात्रिन्दिवं परिश्रमयसि सा सेवा न भवति किम् । यञ्च मिं रोदं रोदं परान् पामरान्गृहेऽरक्षः, मां च सेवामकारयस्तदकिञ्चित्करं किमित्युदीर्य सा वाचंयमाऽभूत् ।
   श्रीगान्धी तु प्रथमत एवावश्यं मयाऽम्ङ्करणानि प्रत्यर्पणीयानीति कृतसंकल्प ञ्प्रासीत् । ञ्प्रतोऽरुन्तुदाः प्रियाया इमा गिरः श्रुत्वापि निश्चयं नाहारयत् । न्यासाधिकृतेषु चेमान्यलङ्करणानि न्यस्य  पुत्रकलत्रादिभिः समेतो भरतवर्ष प्रतिप्रायात् ।
   स्वदेशं प्रत्यावृत्तः श्रीगान्धी कञ्चित्कालमितस्ततोऽभ्रमत् ।
           श्रष्टपञ्चाशदुत्तरनवशतोत्तरसहस्त्रतमे वत्सरे स्वदेशं प्रत्यावृत्तिः, सहस्ये मासि कलिकातानगर्यां मिलितायां ञ्प्राप्रीकां प्रत्याममश्च काङ्ग्रेसपर्षद्युपास्थित । मासमेकं च श्रीगोखलेमहोदयस्य सविधेऽवास्थित । श्रन्ततः