पृष्ठम्:EkagniKandam.pdf/१८

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति

जा॑स्प॒त्यꣳ सु॒यम॑मस्तु देवाः । अभ्रा॑तृघ्नीं॒ वरु॒णाप॑तिघ्नीं बृहस्पते । इन्द्रापु॑त्रघ्नीं ल॒क्ष्म्य॑न्ताम॒स्यै स॑वितस्सुव । अघो॑रचक्षु॒रप॑तिघ्न्येधि शि॒वा प॒तिभ्य॑स्सु॒मना॑स्सु॒वर्चाः॑ । जी॒व॒सूर्दे॒वका॑मा स्यो॒ना शन्नो॑ भव द्वि॒पदे॒ शञ्चतु॑ष्पदे । इ॒दम॒हय्याँ (1)

स्वयं दृष्टा तृतीयां जपेत्-अभ्रातृम्रीमिति । हे वरुण ! त्वं अस्यै वध्वै या अभ्रातृन्नी लक्ष्मीः तां लक्ष्म्यम् । “ वा छन्दसि' इति पूर्वसवर्णाभावे यणादेशः । लक्ष्मीं सुव देहि । हे बृहस्पते ! त्वं च या अपतिम्री लक्ष्मीः तां लक्ष्म्यं सुव देहिं । इन्द्र! त्वं या अपुत्रघ्री लक्ष्मीः तां सुर्युव देहि । हें हे सवितः! त्वं च सर्वात्मिकां लक्ष्म्यं सुव देहि।यथयं भ्रात्रादिमर णं न प्रामेोति तथा कुरुतेत्यर्थः । ‘चतुथ्र्या समीक्षेत-अघोरेति ॥ अवयवशो निरूपणं समीक्ष णम् । हे वधु ! त्वं अघोरचक्षुः अपातिष्ट्री च एधि भव । शिवा पतिभ्यः, देवराद्यपक्षं बहुवचनम् । मह्य पत्य देवरादिभ्यश्च शिवा भव । सुमनाः सुवर्चाश्च भव ! या जावत एव मृत सा जीवसृः । देवान् यष्टव्यत्वेन या कामयते सा देवकामा । स्योना प्रशस्ता । सर्वत्र भवेोति संबध्यते । नः अस्माकं सम्बन्धिनि द्विपदे शं भव । चतुष्पदे च शं भव सुखकरी भव । प्रतीचीनं निस्स्येत्-इदमहमि

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१८&oldid=214082" इत्यस्माद् प्रतिप्राप्तम्