पृष्ठम्:EkagniKandam.pdf/१४

विकिस्रोतः तः
पुटपरिशीलयितुं काचित् समस्या अस्ति

ओम् अ॒ग्नये॒ स्वाहा॑। सोमा॑य॒ स्वाहा॑। विश्वे॑भ्यो दे॒वेभ्य॒स् स्वाहा॑। ध्रु॒वाय॑ भू॒माय॑ स्वाहा॑। ध्रु॒व॒क्षित॑ये॒ स्वाहा॑। अ॒च्यु॒त॒क्षित॑ये॒ स्वाहा॑। अ॒ग्नये॑ स्विष्ट॒कृते॑ स्वाहा॑। अदि॒तेऽन्व॑मँस्थाः। अनु॑म॒तेऽन्व॑मँस्थाः। सर॑स्-व॒तेऽन्व॑मँस्थाः। देव॑ सवितः॒ प्रासा॑वीः।


अथ वैश्वदेवमन्त्राः । तेषां मन्त्राणामुपयोगे द्वादशाहमधश्शय्या । इत्यादि । उपयोगः नियमपूर्वकं विद्याग्रहणम् । कर्तुरेव व्रतम् । पत्न्या अपि केचिदिच्छन्ति । ओम् अग्नये स्वाहा । यथा ओम्- इत्यनुज्ञाक्षरं, तथा स्वाहाकारो हविःप्रदानार्थः । सोमाय स्वाहेति । इमं मन्त्रं केचिन्नाधीयते । विश्वेभ्यो देवेभ्यः । सर्वेभ्यो देवेभ्यः । ध्रुवाय एकरूपाय वृद्धिक्षयरहिताय । भूमाय भूम्ने ब्रह्मणे । भूमा त्वेव विजिज्ञासितव्यः इति छान्दोग्यम् । ध्रुवा निश्चला क्षितिः गतिः व्याप्तिर्यस्य कार्यवर्गं प्रति, तस्मै ध्रुवक्षितये ब्रह्मणे । एवं अच्युतक्षितये । एवमग्नये स्विष्टकृते । रुद्रोग्निस्स्विष्टकृत् । स्विष्टं सुहुतं करोतीति स्विष्टकृत् तस्मै ॥ पूर्ववत्परिषेचनम् । अन्वमंस्थाः । अनुज्ञातवती । प्रासावीः अनुज्ञातवान् ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१४&oldid=214076" इत्यस्माद् प्रतिप्राप्तम्