पृष्ठम्:EkagniKandam.pdf/१३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

ओं परमात्मने नमः श्री कृष्णयजुर्वेदे एकाग्निकाण्डे प्रथमप्रपाठकप्रारम्भुः।


अदि॒तेऽनु॑ मन्यस्व। अनु॑म॒तेऽनु॑ मन्यस्व। सर॑स्-वतेऽनु॑ मन्यस्व। देव सवितः॒ प्रसु॑व।


अथ श्रीहरदत्तमिश्रविरचित-मन्त्रप्रपाठकव्याख्याप्रारम्भः।

प्रणिपत्य महादेवं हरदत्तेन धीमता । एकाग्निकाण्डमन्त्राणां व्याख्या सम्यग्विधीयते ॥

तत्राचार्या आदितो वैश्वदेवमन्त्रानधीयते । तत्र चोक्तं उभयतः परिषेचनं - यथा पुरस्तादिति । तत्परिषेचनमान्त्राः पूर्वं व्याख्येयाः । अदितिर्नाम देवमाता । हे अदिते अनुमन्यस्व । मया क्रियमाणं कर्म अनुजानीहि । अनुमतिः अनुमन्त्री ऊनचन्द्रा पूर्णमासी । हे अनुमते अनुमन्यस्व । सरस्वती वाग्देवता, तस्यास्सम्बुद्धिः । हे सरस्वते अनुमन्यस्व । सरस्वते इति छान्दसो गुणः । हे देव सवितः । सर्वस्यानुज्ञाता । अस्मानपि प्रसुव अनुजानीहि ॥

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:EkagniKandam.pdf/१३&oldid=214077" इत्यस्माद् प्रतिप्राप्तम्