सामग्री पर जाएँ

पृष्ठम्:Dvisandhanam kavya.pdf/५०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

काव्यमाला। तृणेति ॥ स तृणकौतुककंकणोचितां कुचभारनता गोपिको विकृत्य प्रजापतेः अ. स्थानगतं अयोग्यपदवीमायातं श्रमं विचिन्तयन् विलुलोके ॥ अमुनाभिशपन्धनं रुदअभिधावन्पृथुकोऽभिसादयन् । बुबुधे पथि शस्यमापतन्नववर्णीव दुरीहितं तपः ।। ४९ ॥ अमुनेति ॥ धनम् अभिशपन् आक्रोशयन् , रुदन्, अभिधावन् इतस्ततः प्रपलाय- मानः, अभिसादयन् अभ्याशयन् , शस्यं धान्यम्, आपतनागच्छन्, पृथुको बालकः । दुरीहितं दुश्चेष्टितं तप आपतनागच्छन् (उक्तविशेषणविशिष्टोऽपि) नववर्णी नूतनमु. निरिव । अमुना बुबुधे झातः ॥ उत्प्रेक्षा ॥ इदमेवमनादिगोचरं चिरमुच्चैरितरेतराश्रयम् । विषयं वनमप्यनेकशः स सुखं दुःखमिवात्यगान्नृपः ॥ १० ॥ इदेति ॥ स नृपो रामो युधिष्ठिरो वा अनादिगोचरं न आदेगोचरो विषयो यस्य तत् इदम् । 'नपुंसकमनपुंसकेन' इत्येक शेषः । उचैरतिशयेन, इतरेतराश्रयम् इतरेतर आश्रयो यस्मिन् यथा स्यात्तथा, अनेकशी बहून् वारान् विषयं देशम्, वनमरण्यम् । सुखं दुःखम् इव । चिरं बहुतरकालम् अत्यगात् । वनानन्तरं विषयम् , विषयानन्तरं वनम् एवमतिकामति स्म। उपमा । पथि सोऽवरजोऽग्रजं वचः स्फुटमित्यादित वीक्ष्य तादृशम् । विदिर्श विशता विशां दिशं त्यजता सत्यमलंकृतं त्वया ॥ ११॥ पथीति ॥ सोऽवरजी लक्ष्मणः, भीमादिश्च । तादृशं देशवनायुल्यान्यन्तम्, अग्रज राम युधिष्ठिरं च । वीक्ष्य, पथि मार्गे, स्खया विशा देशानां संबन्धिनी विदिश दिर्श वि. शता प्रविशता (राज्यम्) त्यजता संता सत्यम् अलंकृतम् इति वचो वाक्यं स्फुटम् आदित उक्तवान् गृहीतवान् वा ॥ स्वकुलं समलंकृतं गुणैरुपनीताश्च महापदं जनाः। अनुजा विनयेन भूषिता न पराभूतिरितोऽस्ति काचन ॥ १२ ॥ स्वकुलमिति ॥ (त्वया) गुणैरौदार्यादिभिः, स्वकुलं समलंकृतं विभूषितम्, जनाश्च पित्रादयः (प्रतिझापूरणात्) महापदं महापदवीम् उपनीताः प्रापिताः । अनुजा भ्रातरः पश्चाद्भाविनश्च विनयेन भूषिताः (पश्चाद्भांविनोऽपि पित्रादिप्रतिज्ञामेवमेव विनयेन करिष्यन्तीति) शोभा प्रापिताः । इत एभ्यः परा व्यतिरिक्ता काचन भूतिविभूतिर्न अस्ति । भारतीये-गुणैः सत्यसंधत्वादिभिः स्वकुलं समलं सलाञ्छनं कृतम् । जनाश्च महापद महाविपत्तिम्, उपनीताः । विनयेन दुर्नयेन अनुजा भूषिता भुव्युषिताः । इतः (अन्या) काचन पराभूतिरभिभवः न अस्ति ॥ श्लेषः ॥ • orgunced on Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/५०&oldid=234502" इत्यस्माद् प्रतिप्राप्तम्