पृष्ठम्:Dvisandhanam kavya.pdf/२३६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२९ काव्यमाला । समकती प्रजानां शर्म कुरुतस्तथोक्ती इन्द्रस्तुतौ तौ लोकमतीतौ जैनो जिनदेवसंव- न्धिनौ, चरणौ रत्या प्रीत्या अस्तुत स्तुति कृतवान् ॥ शार्दूलविक्रीडितं छन्दः ॥ नीत्या यो गुरुणा दिशो दशरथेनोपात्तवान्नन्दनः श्रीदेव्या वसुदेवतः प्रतिजगन्यायस्य मार्गे स्थितः । तस्य स्थायिधनंजयस्य कृतितः प्रादुष्पदुच्चैर्यशो गाम्भीर्यादिगुणापनोदविधिनेवाम्भोनिधीलहते ॥ १४६ ॥ इति श्रीधनंजयकविविरचिते धनंजयारे द्विसंधानकाव्ये राघवयादवपाण्डवाना निष्क- ण्टकराज्यप्राप्तिवर्णनो नामाटादशः सर्गः॥ नीत्येति ॥ यो नन्दनः पुत्रो गुरुणा पित्रा दशरथैम सह प्रतिजगत् प्रतिलोकम् अ- बतः पालयतो न्यायस्य वसुदे द्रव्यदातरि मार्गे स्थितः सन् श्रीदेव्या श्रिया दीव्यति वि- लसति ताशा नीत्या दिश उपात्तवान् गृहीतवान् स्वाधीनीकृतवान् तस्य लक्ष्मणस्य स्था- यिघनमनश्वरधनं यशः जयस्य कृतित: करणात् प्रादुष्यत् प्रचुरीभवत् उच्चैरतिशयेन गाम्भी- र्यादिगुणापनोदविधिना तदीयगाम्भीर्यादिगुणानामन्यत्रप्रकाशनविधानेनेव तेषामपनोदाय दुरीकरणाय अन्यस्य तादृशगुणवतो मार्गविधानेनेव वा अम्भोनिधीन्समुद्रान् लबते । आभूमण्डलव्यापि तस्य यश इति भावः ॥ भारतीयपक्षे-यः वसुदेवतः प्रति वसुदेवप्र. तिनिधिः श्रीदेव्या शोभया लक्ष्म्या मन्दनः समृद्धो जगन्यायस्य लोकनीतेर्मार्ग स्थितः सन् मीत्या गुरुणा महता रथेन च दश दिश उपात्तवान् । तस्य श्रीकृष्णस्य स्थायि स्थिरं धनंजयस्यार्जुनस्य कृतितः कर्मणः [तत्सहायेनैवार्जुनस्य दुःखनिवृत्तेः] प्रादुष्यत् प्रचु- रीभवत् यशः इत्यादि समानम् ॥ अन्यकर्टपक्षे-यः श्रीदेव्या मातुनन्दनः पुत्रो वसुदेवतः प्रति वसुदेवस्य पितुःप्रतिनिधिः। जगन्यायेऽस्य लोकनीतर्मार्गे स्थितः सन् गुरुणा दशरथेन । इतौ तृतीया। नीत्या नीतेर्दिश उपदेशान् उपात्तवान् । तस्य धनंजयस्य कवेः कृतितः काव्यकरणतः प्रादुष्षत स्थायि यशः । अन्यत् सिद्धम् ॥ इति श्रीमथुरातः पश्चिमे पुष्करतः पूर्व अवन्तिकात उत्तरे कुरुक्षेत्रतो दक्षिणे मध्यरेखातोऽर्धपलधने देशे सकलनगरातिशोभिनि जयनगरे वास्तव्येन श्री- मन्महाराजाधिराजश्रीसवाईरामसिंहप्रतिष्ठापितश्रीमन्महाराजाधिराजश्रीसवाईमाधव- सिंहजीप्रतिणल्यमानजयनगरीयसंस्कृतपाठशालास्थत्रयोदशाध्यापकान्तर्गततामाप-. अन दाधीचवर्यकौत्सगोत्रकुद्दालोपनामकपण्डितवर्यश्रीराधाकृष्णात्मजसाहेबरामा. त्मजानन्तरामात्मजछोटीलालात्मजबदरीनाथेन विनयचन्द्रान्तेवासिने- मिचन्द्रोपकल्पितप्राचीनपदकौमुदीनामकटीकातो गृहीतसारायो बिसंधान- व्याख्यायां राघवपाण्डवयादवानां वैरिरावणकौरवजरासंधवधानिष्कण्टकराज्यप्रा- प्तिकथनो नामाष्टादशः सर्गः॥ Dogticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२३६&oldid=234759" इत्यस्माद् प्रतिप्राप्तम्