पृष्ठम्:Dvisandhanam kavya.pdf/२२७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ सर्गः] द्विसंधानम् । पुरोरिति ॥ पुरोर्महतस्तत् तस्मात् रिपोः शत्रोरत्तापातपः संतापातपोऽतपदुन. ज्वाल । तु पुनः अपारोऽवशोऽपराधीनोऽवेशोऽवगत ईशो यस्य निःस्वामिक उत्तापातपो मानिनीमनोऽपि नृमानमिव विवेश प्रविष्टवान् । हरिः क्रान्तमतं भूतगरिमान्तगतं बत। वरित्सुं तत्र तष्ट्वा तमरिणान्तरतप्यत ॥ १०४ ॥ (अश्वप्लुतबन्धादिः) हरिरिति ॥ हरिः कान्तमतम् अनुक्तकारिणं भूतगरिमान्तगतं भूतगरिमावसानगतं भूतव्यापारव्याप्तिविपर्ययप्राप्त वरित्सुं हन्तुमिच्छु तं प्रतिविष्णुं तत्र युद्धे अरिणा चक्रेण तष्ट्वा हत्वा अन्तरन्तःकरणे बत खेदे अतप्यत स्वयं तप्यते स्म ॥ सत्यतो विभया व्यूहे समुत्पत्या महोरसा । सत्यतो विभया व्यूहे समुत्पत्या महोरसा ॥ १०५ ॥ (अर्धसमः समुद्गकगोमूत्रिकामुरजादिबन्धः) सत्येति ॥ महोरसा विस्तीर्णवक्षसा पत्या विष्णुना सती समीचीना विमया विगतविधुरा समुत् सहर्षी महोरसा तेजोरसा आ लक्ष्मीयूहे रणे सत्यतः सत्यादेनं प्रतिविष्णु जेष्यामीति निश्चयाद् विभया विशिष्टप्रभया प्रतापेन अतः प्रतिविष्णुवधात् समुत्पत्य आगत्य व्यूहे परिणीता ॥ बलिमानर्चयावेद्य बलिमानर्च संयुगे। निर्ययौ भूतलोकं तं निर्ययौ भूतलोचितम् ॥१०६ ॥ बलीति । बलिमान् पलिनोऽस्य सन्तीति विष्णुनिययौ निरश्वे संयुगे रणे तं प्रतिविष्णु भूतलोचितमवनीतलयोग्यं बलिम् अर्चया पूजया आवेध संकल्प्य भूतलोकं भूतसमूहम् आनर्च पूजितवान्, तथा निर्ययौ रणानिर्गतः ॥ याहतेशाहते सीता साह तेजोधिके रिपौ । व्याहते श्वसितै रागं प्राह तेन स संयुता ॥ १०७ ॥ येति ॥ या ईशात्स्वामिनो रामादृते विना हता खिन्ना सा सीता जानकी तेजो. धिके प्रतापाधिके रिपौ शत्रौ व्याहते सति तेन रामेण संयुता सती श्वसितै रागं प्रीतिम् अह कष्टेन प्राह स्म प्रकटितवती । भारतीये-ईशात्प्रतिविष्णोः ऋते । अहता अखिन्ना प्रसन्ना । तेन विष्णुना । सीता भूमिः ॥ कौरवीं गतिमुच्छेत्तुमदुर्योधनपाटवम् । ये ते सख्येन विक्रान्ताः स खां तेभ्यो ददौ भुवम् ॥ १०॥ कौरेति ॥ ये ते विभीषणप्रभृतयो रावणबान्धवा विक्रान्ताः सुयोजिताः सन्तः Digitzed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२२७&oldid=234729" इत्यस्माद् प्रतिप्राप्तम्