पृष्ठम्:Dvisandhanam kavya.pdf/२२०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२१. काव्यमाला। तथायुधिष्ठिरन्तारं कीर्त्या बलमधिष्ठितम् । चिन्तागृहप्रवेशैकप्रारम्भो राममाविशत् ॥१६॥ तथेति ॥ चिन्तागृहप्रवेशैकप्रारम्भः चिन्ताया एव गृहस्य संबन्धिनः प्रवेशस्य एकः प्रारम्भः, आयुधिष्ठि अतिशयितायुधयत् बलं सैन्यम् अधिष्ठितम्, रन्तारं क्रीडन्तं रामं राघवम्, माविशत् ॥ भारतीये-तारमुञ्चं वलम् अधिष्ठितं युधिष्ठिर प्रधानपाण्डवं रामं बलभद्र च॥ असुग्रीवाभियोगार्तमनाशं नरि पौरुषम् । विदधेऽनाकुलं सैन्यमनाशं न रिपौ रुषम् ॥ ७॥ (समपादयमकम्) अस्विति ॥ असुप्रीवाभियोगाते सुप्रीवस्याभियोगाभावेन ऋतं सुप्रीवोद्यमाभावेना- दितम् अनाशं कलत्रपुत्रादौ अलोभितया स्वस्थं सैन्यम् अनाकुलमव्यग्रं सत् रिपो शत्रौ नरि जने अनाशमनश्वरं पौरुषं विदधे। रूपं न विदधे ॥ भारतीये-असुग्रीवाभियोगात कण्ठगतप्राणादितम् नाकुलं नकुलसंवन्धि ॥ योऽपि ना हनुमानाजेर्जुष्टो भेरिरवो गतिः । नोऽरुजे तीर्थनीत्याथोऽसौ सहायकमस्तुत ॥ १८ ॥ योऽर्जुनोऽसौ स रुष्टोऽपि नाभेजे हायतीरिह । नुरर्थकमनीवोमा नागत्यास्तु तथोतिजे ॥ १९ ॥ (गोमूत्रिकान्वधः) योऽपीति ॥ अथ उ अहो योऽपि आजेः सङ्ग्रामात् , जुष्टः प्रीतः, भेरिरवो दुन्दुभि- ध्वनिर्ना पुरुषो हनुमान् , नोऽस्माकं तीर्थनीत्या पश्चाङ्गम श्रेण अरजेऽभङ्गाय गतिरस्ति । असौ सहायक मित्रसमूहम् , अस्तुत प्रार्थितवान् । भारतीये गोमूत्रिकाबन्धगर्भ- श्लोकेन-यास लोकप्रसिद्धोऽर्जुनो मध्यमपाण्डवो रुष्टोऽपि सनिह रणे असौ खड्डे आयतीरुत्तरफलानि न आभेजे आश्रितवती । तथा उतिजे रक्षाजाते इहरणे नः पुरु. षस्य अगत्या अनीत्या उमा कीर्तिः । अर्थकमनी द्रव्यमनोहरा इव । न अस्तु । हस्तच्युतास्त्रमाकम्पं मीलिताक्षं बलं जलम् । . वाताहतमियोत्सृज्य न स वेद क्रियान्तरम् ॥ ७० ॥ हस्तेति ॥ हस्तच्युतास्त्रं करगलितशत्रं, मीलिताक्षं संकुचितलोचनं, बलं सैन्यं, वाताहतं जलम् इव । आकम्पम् उत्सृज्य परित्यज्य, क्रियान्तरं न स्म वेद जानाति । दूरक्षेशविमीमोऽस्मिन्निति वेपथुमीयुषि ।। त्रस्तं युद्धे परं सैन्यं विजगाहे विभीषणः ॥ ७१ ।। Digitzed by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२२०&oldid=234722" इत्यस्माद् प्रतिप्राप्तम्