पृष्ठम्:Dvisandhanam kavya.pdf/२१६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

. . काव्यमाला। नागाननागा गगने सज्जाजिः सासृजोऽसृजत् । रिपुः प्रपपरुः पापाः परपारपरम्पराम् ॥ ४५ ॥ (बक्षरपादः) नागेति ॥ अनागा निरपराधः सबाजिः प्रगुणितरणो रिपुः, सासृजः सरुधिरान्, नागान् सर्पान्, असृजन्मुक्तवान् । तथा च पापा नागाः परपारपरम्पराम् परं शत्रु पिपुरति घरन्ति तेषां परपाराणां शत्रुभृत्यानां परम्परां श्रेणी प्रपपरुः प्रपूरितवन्तः ॥ जलवेणीति संतुष्य तत्रासादित सा हसम् । विष्णोश्चमूर्विभाव्याहिं तत्रासादितसाहसम् ॥ ४६॥ (पादयमकम्) जलेति ॥ विष्णोर्नारायणस्य सा घमः सेना तत्र रणे जलवेणी जलधारा इति वि. भाव्य संतुष्य इस हास्यम् आदित गृहीतवती । तथा भासादितसाहसम् आसादितं साहस येन तादृशम्, अहिं सर्प विभाव्य तत्रास अधोऽधः पेतुरानीलाँल्लेलिहानान्कृशानवः । __ वर्षतो विषमम्भोदानशनेरिव राशयः ॥ ४७ ॥ अध इति ॥ कृशानवोऽप्रय आनीलान् ईषनीलान् विषं गरलं वर्षतो लेलिहानान् सर्पान् । अशने राशयो विद्युत्पुझा आनीलान् समन्ततो नीलान् , विषं जलं वर्षतोऽम्भो. दान्मेघान् इव । अधोऽधः अधस्तात् । 'द्वितीयानेडितान्तेषु' इति षष्ठपर्थे द्वितीया । पेतुः पतिताः ॥ वर्माण्याप्रपदीनानि दीनानि बिभिदुः सदा । दुःसदा भुजगोपाया गोपाया दुर्मुखे वृथा ॥ १८॥ (शृङ्खलायमकम्) वर्मेति ॥ दु:सदा दुर्गम्या भुजगोपायाः सर्पच्यापारा: आप्रपदीनानि आगुल्फप्राप्तानि । 'आप्रपदं प्राप्नोति' इति खः । सदा दीनानि क्षीणानि, वर्माणि संनहनानि विभिडः । यु. क्तमेतत् । गोपाया रक्षा दुर्मुखे दुर्जने वृथा भवति ॥ सपैवेणी विसर्पन्ती दानधारेव दन्तिनः। कटयोराकुला भेजे शृङ्खला पादयोरिव ॥ ४९॥ सपैति ॥ आकुला व्याकुला सर्पवेणी पन्नगश्रेणी कटयोः कपोलयोविसर्पन्ती विजृम्भ- माणा सती दानधारेव, पादयोर्विसर्पन्ती शृङ्खलेव, भेजे शोभिता ॥ नागायत्तं सुजित्याभिनभोऽभूदिव दारितम् । नागायत्तं सुमित्यामिर्मायामिनोंदितं जनः ॥ ५० ॥ (पादयमकम्) Digized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२१६&oldid=234752" इत्यस्माद् प्रतिप्राप्तम्