पृष्ठम्:Dvisandhanam kavya.pdf/२१५

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


१८ सर्गः] द्विसंधानम् । २०६ सामीति ॥ अहो आश्चर्य सा द्विपावलिः सामि अर्धे मीलचक्षरमिमीलत् । अस्या द्विपावले: किं नवपुष्करं शुण्डादण्हापं वपुः शरीरं करणमिन्द्रियजातं वपुरोजो नामिमी- लत् । अमिमीलदेव ॥ अत्यन्तीनां हयालीयं सालिलङ्घिषत स्यदात् । निसर्गः कश्चिदस्यास्ति शक्तस्यान्यस्य चाङ्गिनः॥ ४०॥ (निरोष्ठयः) अत्यन्तीति ॥ सा इयं अत्यन्तीनाम् । अवारपार-' इति खः ।भृशंगामिनी हयाली स्य- दाद वेगाद लिलक्षित लवितुमिष्टवती । शक्तस्य समर्थस्य, अन्यस्य भीरोः, अस्य अ- जिनः, कश्चित् निसर्गः स्वभावोऽस्ति ॥ रवेरावरणं चापी कुर्वाणः शरणं शरैः। कृष्णो मेघो जगजोंच्चैप्प्योपककुभं भुवः ॥ ४१ ॥ रवेरिति ॥ चापी धनुष्मान् कृष्णो लक्ष्मणो विष्णुश्च शरैर्याणै खेः सूर्यस्यावरणं प्र. च्छादनं भुवः पृथ्व्याः शरणं विदारणं कुर्वाणः सन् । चापी शक्रधनुष्मान् , रखेरावरणम्, शरैर्जलैः, भुवः शरणं कुर्वाणः, कृष्णो मेचकः, मेघ इव । उपककुभ दिशं दिशं प्रति । 'झयः' इति समासान्तः । व्याप्य, उच्चैरत्यर्थ जगजै ॥ अमरिष्यजनः पूर्व धूमध्यामाग्निशङ्कया । विद्युत्वन्तं धनं वीक्ष्य नामोक्ष्यच्चेत्स विषुषः ॥ ४२ ॥ अमरीति ॥ जनो विद्युत्वन्तं तडिद्युक्तं धनं वीक्ष्य स धनो विग्रुषो जलकणान्, चेत् न अमोश्यत, तदा धूमध्यामामिशङ्कया धूमध्यामलवाद्विभ्रान्त्या पूर्व प्रथमम् अमरिष्यत् ॥ भूरिरभ्रमरो रेभी कोऽनेकानीककाननम् । . काकालिकी किलाकाले नोपापापोऽपि नापपुः ॥ ४३॥ (अक्षरपादः) भूरीति ॥ किल लोकोक्ती भूरिः प्रचुरो रेभी ध्वनिमान् कोऽभ्रमरो मेघसमूहो- ऽनेकानीककाननं प्रचुरसैन्यकान्तारम्, अकाले असमये न उपाप व्याप । का अका- लिकी विद्युत् प्रकरणात् न उपाप । अपि तु व्यापैव । आपो जलानि अपि न आपपुः ॥ रणमेकार्णवं कर्तुमारेभेऽभ्रं शनै रसत् । अभूद्वहिरपां घोरैरारेमे भ्रंशनैरसन् ॥ ४४ ॥ (समपादयमकम्) रणमिति ॥ अभ्रं मेघः, शनैर्मन्दमन्दं रसत् वदत् । सत् एकार्णवं रणं कर्तुम् आरेभे प्रारब्धवान् । तथा घोरैर्भयानकैरपा भ्रंशनैः संघटनैः, आरेभे गर्ने सति असनविद्यमानो वहिः विद्युत्पातात् अभूत् संजातः ॥ Cogncode, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२१५&oldid=234751" इत्यस्माद् प्रतिप्राप्तम्