पृष्ठम्:Dvisandhanam kavya.pdf/२१४

विकिस्रोतः तः
Jump to navigation Jump to search
एतत् पृष्ठम् अपरिष्कृतम् अस्ति


काव्यमाला। लोलध्वजौ वहद्वानिवेलौ तद्वत्तयो रथौ। युद्धाम्बुधौ द्विनावं चेदन्योन्यमभिपातुकम् ॥ ३४ ॥ लोलेति। चेद् यदि द्विनावं नौद्वयसमाहारः । 'नावो द्विगोः' इति टन्। अन्योन्यम् अ- मिपातु संमुखागमनशील स्यात् । तर्हि लोलध्वजौ चञ्चलकेतू, वहद्वाजिवेलौ वहन्ती वाजिनावेव वेला ययोस्ती, तयोविष्णुप्रतिविष्ण्वोः रथी युद्धाम्बुधौ रणसमुद्रे, तद्वत् द्वि- नाववत् स्याताम् ॥ स मेनेऽनेन सामर्थ्यमग्रे युधि दिवौकसाम् । समेनेऽनेनसामर्थ्यमीयमानमरातिना ॥ ३५॥ (समपादयमकम्) स इति ॥ स विष्णुरप्रे भाविनि, समेने समानस्वामिनि, युधि, अनेनसां पुण्यवतां दिवौकसां देवानाम्, अर्घ्य श्शाध्यम्, अनेन भरातिना सह ईयमानं प्राप्यमाणं सामर्थ्य मेने झातवान् । अरिरलं रणेऽस्राक्षीदाग्नेयं धीरदीधिति । अक्षान्ति हृदयेऽनेकां निःसहं लङ्घयन्यथा ॥ ३६॥ अरिरिति ॥ अरिः शत्रुहृदये हृदि अनेको प्रचुराम, अक्षान्तिमक्षमा लक्ष्यन् अतिकामन यथा इव आमेयं वद्धिविकारं धीरदीधिति धीरदीप्ति, निःसहं दुःसहम, अलं शनम्, अस्राक्षीत् मुक्तवान् ॥ कोपः कश्चिज्ज्वलत्यस्य कनकाश्मस्य किं द्रवः । किं किंशुकवनं फुल्लं किं जिह्वा समवर्तिनः ॥ ३७ ॥ कोप इति ॥ अस्य शत्रोः कश्चित् कोपः कनकाश्मस्य सुमेरोः । 'अनोश्मायः' इति टम् । द्रवः किम्, फुल्लं पुष्पितं किंशुकवनं पलाशवनं किम्, समवर्तिनो यमस्य जिता किम्, इति भ्रान्तिमुत्पादयन् ज्वलति दीप्तो जायते ॥ इत्याशङ्कय चिराजज्ञे संतप्तैर्भीरुकैः शिखी । दृष्टया शूरैः पराच्छेदि भिदेयं भीरुधीरयोः ॥ ३८॥ इतीति ॥ इत्येवंप्रकारेण आशङ्कप आशङ्कामुत्पाद्य चिरात् संतप्तीकैर्भयवत्पुरुषैः, दृष्ट्या अवलोकनमात्रेण शिखी दहनास्त्रम्, जझे ज्ञातः । शूरैः पराच्छेदि परिच्छिन्न इयं भीरुधीरयोभिदा भेदः॥ सामिमीलदहो चक्षुः सामि मीलविपावलिः । नवपुष्करमस्याः किं न वपुष्करणं वपुः ॥ ३९ ॥ (पादादियमकम्) Digized by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२१४&oldid=234750" इत्यस्माद् प्रतिप्राप्तम्