१८ सर्गः] द्विसंधानम् । न आप्रवन्ति तान् पापापापान उपपान्ति रक्षयन्ति तादृशो निरपराधरक्षकान्, अन्- नान् प्रचुरान् , नृन् पपौ रक्ष । तत्तस्मात्कारणात्, तत्तातस्तत्पिता सन् आतति श्रेणीम् भतत विस्तारितवान् । छिन्नैः शफैः समीकेऽस्त्रैरर्वतां गोखुरैरिव । हस्तिहस्तक्रमैः कीर्णे मुसलोलूखलैरिव ॥ २९ ॥ सेजिते तमसा जेरे रेजेऽसामततेऽजिते । भासितेऽरदनारीभे भेरीनादरतेसिमा ॥ ३० ॥ (युम्मम्) . (गतप्रत्यागतम्) छिरिति । अत्रैः छिन्नैः, अर्वतामश्वानां शफैः खुरैः गोखुरैरिव । अश्वशफानां मध्ये छिन्नत्वेन गोखुरोपमोक्तिः । हस्तिहस्तक्रमैः शुण्डालशुण्डावरणैः मुसलोलूखलैरिव कीर्णे व्याप्ते, तेजिते प्रदीप्ते, असामतते असामभिः सकोपैस्तते व्याप्ते, अजिते अनभिभूते, भासिते प्रकाशिते, अरदनारीभे अरदना अदन्ता अरीणामिमा गजा यत्र, भेरीनादरते भेरीणां मादे रतं यस्य तादृशि, समीके सकामे तमसान्धकारेण जेरे जीर्ण विनष्टम् । तथा असिभा खगदीप्ती, रेजे शोभिता ॥ गभोपोढा इव हयाः पङ्कात्यस्ता इव द्विपाः। उन्मत्ता इव तत्रासमताः शस्त्रपाणयः ॥ ३१ ॥ गर्भेति ॥ तत्र सङ्कामे त्रैमता विष्णुसंवन्धिनः हया अश्वा गर्भापोढा गर्भनिर्गता इव, द्विपा गजाः पकात्यस्ताः कर्दमनिर्गता इव, शस्त्रपाणयः सुभटा उन्मत्ता इव, भासन् ॥ अत्यध्वान्तां महोपायां चमूमुत्सृज्य वैष्णवीम् । अत्यध्वां तां महोऽपायां वैरीयां तत्तमोऽविशत् ॥ ३२॥ (समपादयमकम्) अत्येति ॥ तत् तमो अत्यध्वान्तां ध्वान्तमुत्साहं न अतिक्रान्तां महोपायां महान- पायो यस्यां तादृशं वैष्णवी चमूम् उत्सृज्य त्यक्त्वा, अत्यध्वाम् अध्वानमतिकान्ताम् । 'उपसर्गादध्वनः' इति समासान्तः । महोऽपायां महसां प्रतापलक्षणतेजसामपायो विनाशो यस्यां ताशं तां वैरीयां शात्रवी चमूम् अविशत् ॥ अयानि तव तिष्ठ त्वं गृहाणायुधमायुधम् । इत्येकवाक्यौ वैरेऽपि तावाढतां परस्परम् ॥ ३३॥ __ अयानीति ॥ अहं तव संमुखम् अयानि, त्वं तिष्ठ, आयुधम् आयुषं गृहाण, इत्येवं प्रकारेण, वैरेऽपि एकवाक्यो समानवाक्यौ, तौ परस्परम् भाङ्केतामाहूतवन्तौ ॥ Digitzed b, Google
पृष्ठम्:Dvisandhanam kavya.pdf/२१३
दिखावट