पृष्ठम्:Dvisandhanam kavya.pdf/२१०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२०० काव्यमाला। सहेति ॥ सहः समर्थः स रावणो जरासंधश्च प्रतापानी विभ्रजिषुः पक्तुमिच्छुः संधि- सुतां संधानमिच्छुतां विनद् दधद् इव ताभ्यां लोकप्रतीताभ्यां हस्ताभ्यां चमूहस्तौ सेनापार्थावपीडयत् ॥ प्रापूरयन्नमस्त्रातः शिक्षामार्गेण मार्गणैः । प्रापूरयं न भत्रातस्ते निर्याताः पुरोगतैः ॥ १४॥ (विषमपादयमकम्) प्रापूरेति । शिक्षामार्गेण त्रातो (रावणो जरासंधो वा) मार्गणै गर्नभो गगनं प्रापूरयत् । तथा ते मार्गणाः मनात इषुधेनिर्याताः सन्तः पुरोगतैरग्रगतैर्मार्गणैः सह रयं वेगं (किम्) न प्रापुः । अपि तु प्रापुरेव ॥ प्रखापनास्त्रमसृजत्स तामसमयोऽदयम् ।। द्विषां तेनाकरोन्मोहं सतामसमयोदयम् ॥ १५ ॥ (समपादयमकम्) प्रस्वापेति ॥ तामसमयः कोपनिर्वृत्तः स प्रतिविष्णुरदयं यथा स्यात्तथा प्रस्थापनानं प्रकर्षनिहाशस्त्रम् अस्जद मुक्तवान् । तेन प्रस्थापनानेण सतां विद्यमानानां द्विर्षा शवणाम् असमयोदयम् अनवसरोदयं मोहम् अकरोत् ।। मत्तसुप्तामिव चमू तां तमोघमयोऽजयत् । शरमिन्नं धियारीणां तान्तमोघमयोजयत् ॥ १६ ॥ (समपादयमकम्) मत्तेति ॥ तमोघमयोऽविवेकपापनिवृत्तः स प्रतिविष्णुस्ता चमू मत्तसुप्तां पूर्व मता पश्चात्सप्ताम् इव अजयत् । तथा अरीणाम् ओघं वृन्दं शरभिन्नं वाणजर्जरितम् धिया बुद्ध्या तान्तं खिन्नम् अयोजयत् ॥ अरयो भीरवश्चक्रे जाताश्चित्रार्पिता इव । अरयो भीरवश्चक्रे व्याकुलैस्तद्वधूकुलैः ॥ १७ ॥ (विषयपादयमकम्) अरय इति ॥ भीरवो भयवन्तोऽरयः शत्रवश्चक्रे चक्रव्यूहे चित्रार्पिता इव जाताः । तथा च व्याकुलैयप्रैस्तद्वधूकुलैररातिवधूवृन्दैररयो मन्दो भीरवो भयध्वनिश्चक्रे कृता । अश्वोरसपतत्पत्तिः सुप्ताधोरणहस्तिका । सेनाक्षिपद्भियेवाङ्गमक्षधूःसुप्तसारथिः ॥ १८ ॥ अश्वेति ॥ अश्वोरसपतत्पत्तिरश्वोरसेनाश्वप्रधानोरसा पतन्तः पत्तयो यस्यां सा, सुप्ता- Digitzed by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२१०&oldid=234743" इत्यस्माद् प्रतिप्राप्तम्