पृष्ठम्:Dvisandhanam kavya.pdf/२०९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ सर्गः] द्विसंधानम्। नरेति॥मस्कोपामिर्मकोधानलोरघूर्णाविदाहेन रघूणां रघुवंशजानाम् उवास्तत्सदृशस्य शिरोभूतस्य रामस्य विदाहेन भस्मीकरणेन न, वा अथवा हानुमतानुमत्संबन्धिनो रणात् न, केशवक्लेशालक्ष्मणव्यथातोऽपि अद्य न प्रशाम्यति ॥ भारतीये-नरघूर्णाविदाहेन नर. स्यार्जुनस्य घूर्णया भ्रमणेन विदाहेन संक्लेशेन । वाहानुमतादश्वाभीष्टात् । केशवल्लेशाद् वासुदेवपीहातः॥ इत्यतोरावणो रोषसिद्धेस्ताम्यन्निवात्मनि । बहुधामागधैर्योऽसौ वीरैश्चक्री रणं ययौ ॥९॥ इत्यत इति ।। बहुधामा प्रचुरप्रतापः, अगधैर्यः स्थिरधैर्यः असौ रावणश्चक्री चक्रवर्ती इत्येवंप्रकारेण अतोऽस्याः रोषसिद्धरात्मनि ताम्यन्निव वीरैर्भटै रणं ययौ ॥ भारतीये- यो जरासंधनामा चक्री चक्रवर्ती स इत्येवंप्रकारेण अतोऽस्या अरौ शत्रौ अणोरल्पाया: रोषसिद्धरात्मनि निजे असौ खड्ने ताम्यग्निव बहुधा अनेकधा मागधैर्मगधदेशीयैवारैः क्ष- त्रियैः सह रणं ययौ ॥ जित्वारयः सुखं बन्धून्प्राध्वं कृत्यविचक्षणे । इति चित्तेऽमुना वैरं प्राध्वंकृत्य विचक्षणे ॥ १०॥ (समपादयमकम्) जित्वेति ॥ अमुना रावणेन जरासंधेन च, हे अरयः शत्रवः, यूयं बन्धून जिवा सुखं यथा स्यात्तथा प्राध्वं तिष्ठत इति कृत्यविचक्षणे कार्यकुशले चित्ते वैरं प्राध्यंक चक्षणे हसितम् । उपसर्गवशाद्धातोरान्तरे वृत्तिः ॥ पशुवच्छादयन्भीरूशूरानच्छादयं समम् । हृद्यस्वच्छादयन्धातोरौः स्वच्छादयन्नभः ॥ ११ ॥ (पादमध्ययमकम्) पश्विति ॥ अयं रावणो जरासंधश्च । हृदि अन्तःकरणे अस्वच्छात्कुटिलात् धातोर- भिप्रायात् अयन् गच्छन् भीरून् पशुवत् पशनिव शादयन् सन् समं युगपत् शूरान् अ- च्छाद् अच्छिनत् । नभी गगनं स्वच्छादयत् अतिशयेन छादयति स्म। वक्षसासौ पुरोभागं तेजसादित्यमुर्वराम् । शस्त्रैरघुलतोद्यतः कीर्त्या तस्तारदिङ्मुखम् ॥ १२ ॥ वक्षसेति ॥ असौ रावणो रघुक्षतोयतो रघुवधोद्यतः सन् वक्षसोरसा पुरोभागं सुभटा- नामुपसारणम् , तेजसा आदित्यम्, शस्त्रैर्वर भूमिम्, कीर्त्या दिव्युखम् तस्तार संकृत- वान् ॥ भारतीये-असौ खड्ने उद्यत उद्युक्तो जरासंधः, यतः तेन तेन तं तम् अघुक्षत समवृत । अतः कीर्त्या तारदिच्मुखं विशदाशामुखम् अघुक्षत ॥ स हस्ताभ्यां चमूहस्तौ सहस्ताभ्यामपीडयत् । विभ्रजिषुः प्रतापानौ बिभ्रत्संधित्सुतामिव ॥ १३ ॥ (पादादियमकम्) Despited o, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२०९&oldid=234742" इत्यस्माद् प्रतिप्राप्तम्