पृष्ठम्:Dvisandhanam kavya.pdf/२०८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९८ काव्यमाला । भवेयुरन्ते विरसाः समं देहा विभूतयः । राज्ञां माहंक्रिया भूवन्समन्देहा विभूतयः ॥ ३॥ (समपादयमकम्) भवेयुरिति ॥ देहाः कायाः, विभूतय ऐश्वर्याण्यन्ते अवसाने समं युगपद् विरसा भ- वेयुः । परंतु राज्ञा नृपाणाम् अहंक्रिया अहंकाराः विभूतयो विनष्टा भुवः पृथ्व्या ऊत- यो रक्षा याभ्यस्तादृशः, समन्देहा मन्दयेहया सहिता, मा भूवन् ॥ उत्तरेऽर्थे कृतार्थत्वं नान्तराले कृते परम् । लज्जालुतोत्तरीयेण नान्तरीयेण केवलम् ॥ ४॥ (समपादादियमकम्) उत्तरेति ॥ उत्तरेऽर्थे प्रयोजने सिद्ध न परं केवलं कृतार्थता, किंतु अन्तराले मध्ये एवार्थे कृते सति । यथा केवलम् उत्तरीयेण वस्त्रेण न लजालुता, किंतु अन्तरीयेणाधो- वनेणैव ।। स्थेयान्माहाकुलः स्वान्ते निजमालम्ब्य पौरुषम् । स्थेयान्मा हा कुलः स्वान्ते भीतं मुञ्चति नान्तकः ॥ ५॥ (विषमपादायन्तयमकम्) स्थेयामिति ॥ स्वान्ते चित्ते स्थेयान् स्थिरतरो माहाकुलो महाकुलीनः स्वान्ते स्वाव- साने आकुलो व्यग्रः सन् निजमात्मीयं पौरुषम् आलम्ब्य धृत्वा मा न स्यात् इति हा कष्टम् । अपि तु तिष्ठत्वेव । यतः भीतं जनम् अन्तको न मुश्चति ॥ स्थिरप्रकृतिरादेयः केषांचन न चञ्चलः । पिङ्गलोऽप्यर्च्यते काको मङ्गलार्थ न केनचित् ॥ ६ ॥ स्थिरेति ॥ स्थिरप्रकृतिनिश्चलस्वभावः, आदेयो प्रायो भवति, केषांचन केषामपि चश्चलो न । यतः पिङ्गल उलूकोऽपि मालार्थम् अर्च्यते पूज्यते । केनचित्केनापि काको नार्यते॥ असि भुजमहं धैर्य स मन्त्रिभ्योऽधिकोचितम् । गणयन्करवै शत्रु समं त्रिभ्योऽधिकोचितम् ॥ ७॥ (समपादयमकम्) असिमिति ॥ सोऽहं मत्रिभ्यः सचिवेभ्योऽधिकोचितमधिकयोग्यम् असि भुजं धैर्य गणयन् सन् समं युगपत् , त्रिभ्योऽसिभुजधैर्येभ्योऽधिकोचितं संकोचितं शत्रु करवै॥ नरघूर्णाविदाहेन न वाहानुमताद्रणात् । नाप्यद्य केशवक्लेशान्मत्कोपाग्निः प्रशाम्यति ॥ ८ ॥ Digitzed by Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२०८&oldid=234741" इत्यस्माद् प्रतिप्राप्तम्