पृष्ठम्:Dvisandhanam kavya.pdf/२०७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१८ सर्गः] द्विसंधानम् । १९७ नीत्वा पार्श्वनोभयेनापि निद्रां युद्धोत्स्वप्नेनेव नागा विबुद्धाः । शत्रोछत्रं हैममाशङ्कय बालं हस्तावृत्त्याक्रष्टुमैच्छन्निवार्कम् ॥९० ॥ नीत्वेति ॥ युद्धोत्स्वमेन रणोद्तस्वप्नेन विबुद्धा नागा गजा निद्रा नीत्वा समाप्य वालं नवोदितम् अर्क भानुं हैमं हिरण्मयं शत्रोश्छत्रम् आशङ्कय उभयेनापि पार्श्वेन हस्ता- भृत्या गुण्डादण्डपरावृत्या बालमर्कम् आऋष्टुम् इव ऐच्छन् । शालिनी ॥ लक्ष्मी खलामुभयभागितया विलोला । स्वीकर्तुमेष गणिकामिव जागरूकः । संना मुश्च शयनं प्रधनं जयेति स्तुत्यैः परं हरिरबोध्यत सूतपुत्रैः ॥ ११ ॥ लक्ष्मीमिति ॥ स्तुत्यैः प्रशंसनीयैः सूत्रपुत्रैः प्राभातिकमङ्गलपाठकपुत्रैः 'गणिकाम् इव' उभयभागितया जिगीषुप्रतिजिगीषुभजनशीलतया खलां प्रतारणपरो विलोला च- चला लक्ष्मी स्वीकर्तु जागरूको जागरणशील: हरिलक्ष्मणो नारायणश्च 'हे देव, शयनं शथ्यो मुश्च संनय प्रधनं समरं जय' इत्येवंप्रकारेण परं केवलम् अबोध्यत बोध नीतः ॥ वसन्ततिलका ॥ इति धनंजयविरचिते राघवपाण्डवीयापरनानि द्विसंधानकाव्ये धनंजयाङ्के रात्रिसं. भोगव्यावर्णनं नाम सप्तदशसर्गः समाप्तः । अष्टादशः सर्गः। प्रभावै रोचनीयस्य भीतेवोदेतुमोजसः । प्रभा वैरोचनी यस्य वीतोच्छासेव चावनिः ॥ १ ॥ (विषम्पादयमकम्) प्रभेति ॥ वैरोचनी भास्करी प्रभा दीप्तिः प्रभावैर्माहात्म्यै रोचनीयस्य भासनीयस्य यस्योजसः प्रतापादुदेतु भीतेव बभूव । अवनिर्मेदिनी च वीतोच्छ्वासेव बभूव ॥ सर्गेऽस्मि- अनुष्टुप वृत्तम् ॥ तथापि स पुमानन्ते ययवस्थितमाकुलम् । सहास्य यशसा शुभ्रं यद्यवस्थित मा कुलम् ॥ २॥ (समपादयमकम्) तथापीति ॥ यद्यपि प्रतापिनो भवेयुस्तथापि तेषु स एव पुमान् यद्यस्मात्कारणात् , यद्यस्मात्पुरुषात्, व्यवस्थितं जातव्यवस्थम्, शुभ्रं स्वच्छ कुलमन्वयो यशसा सहास्य पुरुषस्यान्ते आकुलं व्यप्रं मा व्यवस्थित मा भूत ॥ Dogticed b, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२०७&oldid=234740" इत्यस्माद् प्रतिप्राप्तम्