पृष्ठम्:Dvisandhanam kavya.pdf/२०६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

१९६ काव्यमाला। निसोढुं संवरीतुम्, असहासमा सती हासाद्धास्यात् इव स्फुटिता विकसिता आसीत् ॥ इन्द्रवत्रा ॥ अन्योन्यनिद्रावसरं प्रतीच्छट्वन्द्वं न सुष्वाप कृतावधानम् । अध्यात्मतत्त्वानि कषायिताक्षं जागर्यया ध्यायदिव स्मरस्य ॥८६॥ भन्योन्येति ॥ स्मरस्य कंदर्पस्य अध्यात्मतत्त्वानि परमार्थरहस्यानि ध्यायदिव जाग- येया उभिद्रतया कषायिताक्षं सरागलोचनम्, द्वन्द्वं मिथुनं अन्योन्यनिद्रावसरं परस्पर- शयनप्रस्तावम् प्रतीच्छत् परस्परममिलषत् सत् कृतावधानं विहिततत्परत्वं यथा स्या- सथा न सुष्याप ॥ निधुवनमधुनिद्रामोदशेषेकभारं पुनरुषसि स कामी योषितोऽङ्गं ललझे । रुचिमपि विदधेऽस्याः क्षामभावं विनीय प्रशमयति न कं वा लङ्घना शेषदोषम् ॥ ८७ ॥ निधुवनेति ॥ स कामी पुनरुषसि निधुवनमधुनिद्रामोदोकभारं निधुवन-मधु-नि- द्राणामामोदस्य शेष एव एको भारो यस्मिस्तादृशं योषितः कामिन्या अझं ललहे लक्ति- वान् । तथा क्षामभावं रतिश्रमं निपीयाकृत्य अस्याः कामिन्या रुचिमभिलाषम् अपि विदधे । युक्तमेतत् । लाना की कं वा शेषदोषं न प्रशमयति ॥ मालिनी ॥ रात्रिवृत्तमलमेवमनूद्य त्वं वधूः खलु विलक्ष्य खलेति । हुंकृतैः प्रतिहतोऽपि सखीभिः स्त्रीरतान्यधिजगौ शुकशावः ॥ ८ ॥ रात्रीति ॥ हे खल, त्वमेवं रात्रिवृत्तं वधूः कामिनीरलं मा अन्य अनुवादीः अलं विलक्ष्य मा लक्षय इत्येवंप्रकारेण सखीभि«कृतैः प्रतिहतोऽपि शुकशावः स्त्रीरतानि भ- धिजगी अन्ववादीत् ॥ स्वागता ॥ सूर्योऽभ्युदेष्यति कदाजिभरोऽथवेति ध्यायन्निवाश्वनिवहः स्तिमितान्तरात्मा । पश्यन्निवाक्षिभिरसूचयदूर्ध्वसुप्तो घोणापुटस्फुरणसूत्करणैर्विबोधम् ॥ ८९॥ सूर्य इति ॥ स्तिमितान्तरात्मा निश्चलान्तरात्मा, उर्ध्वसुप्त उर्ध्वनिद्राणोऽश्वनिवह- स्तुरंगमसमूहः 'कदा सूर्योऽभ्युदेष्यति अथवा आजिभरः सङ्ग्रामभरः कदा भविष्यति इति ध्यायन् , अक्षिभिर्विबोधं प्रभातं पश्यन् इव' घोणापुटस्फुरणसूत्करणैर्नासापुटसंच- रणसूत्करणैर्वियोधं प्रभातम् भसूचयत् ॥ वसन्ततिलका ॥ Cogncode, Google

"https://sa.wikisource.org/w/index.php?title=पृष्ठम्:Dvisandhanam_kavya.pdf/२०६&oldid=234739" इत्यस्माद् प्रतिप्राप्तम्