पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५१
रक्मिणीहरण ईहामृगः ।


एतां विलोक्य जननीं सहजोज्जिहान-
 वात्सल्यमुद्धटयते कमपि प्रमोदम् ।
जन्मान्तरैरुपचितामिव तां यशोदा-
 स्नेहस्थिर्ति ननु तदप्यवजेतुमीष्टे ॥ १७ ॥

 रामः-( सप्रश्रयम् ) किमादिशन्ति गुरवः ? ।

( वसुदेवो देवकी मुखमीक्षते )

 देवकी-अयि राम! कन्हविवाहत्थं गमिस्मध कोण्डिनपुरम् । भोदु मह ननंदाए नंदणो विसमसराहिट्टाणं रत्तंबरमंडिदो परमसुहभाअ[१]णं ।

 रामः--( साकूतस्मितम् ) अयि कृप्पा ! प्रनीच्छ पित्रोरादेशम् ।

 कृप्णः-शिरसि वद्धाञ्जलिं सिद्धमिममादेशां मन्यन्तां पादाः ।

 उध्द्रवः--( अपवार्य ) अयि सात्यके ! अपि अक्रूर ! ग्रन्थौ वध्नन्तु भचन्तो देव्या देवक्या निदेश्ठाम् । अयि राम ! कृप्णविवाहाय कौपिडनपुरं गच्छत । भवतु मम तत्र ननान्द्टनन्दनः-(इत्यद्धोक्त्तौ स्मितं नाटयति )

 अक्रूरसात्यकी-तिष्टतु तिष्टतु । अलं व्याख्यया ।

 देवकी-( सहर्पम् ) अयि विजये ! गच्छ समाणेसु शिशुपालदूअं[२]

 प्रती०-जं देवी आणवेदि[३] । (इति निप्क्रम्य तेन सह प्रविशति)

 देवकी-( सहर्षम् ) अपि संधाणअ ! उञ्असप्प कन्हं सरामं[४]

 सन्धानकः-जयदु जयदु रामेणा समं कण्हो[५]

सुहलक्खणसंपुण्णं अणुरत्तं रअणसालिअं एदं।
अइदुल्लहमवरेर्हि रोन्ह तुमं कण्ह ! नरवडणो[६] ॥ १८ ॥

( इति माणिक्यमालामुपनयति । कृप्णो नाटयेन गृण्हाति )


  1. अयि राम ! कृण्णविवाहार्थे गमिष्यथ कोण्डिनपुरम् । भवनु मम ननान्हनन्दनो विपमशराधिष्ठान रक्त्तावरमण्डितः परमसुखभाजनम् ।
  2. अयि त्रिजये ! मच्छ समानय शिशुपालदूतम् ।
  3. यद्देव्याज्ञापयति ।
  4. जयि सन्धानक ! उल्सर्प कृप्ण सरामम् ।
  5. जयतु जयतु रामेण सम कृष्ण ।
  6. शुभलश्क्षणसम्पूर्णामनुरक्ता रत्नशालितामेताम् ।
    अतिदुर्लभामवरैः गृहाण स्वं कृप्ण ! नग्पते. ॥