सामग्री पर जाएँ

पृष्ठम्:Collection of six Dramas of Vatsaraja.pdf/५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
४३
रुक्मिणीहरण ईहामृगः ।


नहि वहति नरेन्द्रे क्कापि सद्वीरमुद्रा-
 रभसरसदरिद्रे जाङ्गले लाङ्गलं मे ।
उपचितसुखराशिं चैद्यदेहं खनन्तो
 फलतु कृपिरिदानीं साधु सङ्कर्पणस्य ॥ १९ ॥

 कृष्णः-( स्वगतं सहर्पम्)

चित्त प्रसीद् समुपैति मनोरथस्त्वां
 सा वल्लभाऽद्य सुलभाऽजनि दुर्लभापि ।
त्यता गृहस्थपरिपाटिकदर्थना सा
 जातोऽधुना सपदि नन्दक एव दूतः ॥ २० ॥

 रामः-( खङ्गमास्फालयन् सहर्षे ससंरम्भम् )

स्वच्छन्दं मधुपानकेलिपु मया स्वात्मा सुखं स्थापितः
 प्रीतस्तत्र कृतो निजः परिजनस्त्वं वञ्चितः केवलम् ।
इंहो खङ्ग । पित्र प्रकाममधुना सम्यन्घिनो रुक्मिणाः
 स्वादुस्फारमहास्रपूरमदिरां लुम्पामि दोपं निजम् ॥ २१ ॥

 अक्रूरः-( सहासं सरोपम्) अयि वीरशिरोमणे राम ! शिशुपालम्क्मिणीपरिणयेऽपि भवतां रुक्मी सम्वन्धी ।

 रामः-( सरोयं ससंरम्भम्) अयि अक्रूर ! यादृगक्रूरो न भापते तादृगुक्त्तम् ।

कंसारिः परिणेप्पते परमपं तां रुविमणीं कन्यकां
 चेदीन्द्रो विहरिष्प्यते सुरवधूयर्गेणा सार्द्धं चिरात् ।
यघेतत्समराङ्गणे सफलयाम्युन्मुद्रदोर्विक्रमो
 नामोद्दामगुणै भविप्यति परं तत्कामपालेति मे ॥ २२ ॥

 अपि प्रतीहार । दीयतां समरविजयप्रयाणदुन्दुभिः ।

 प्रती०--यथादिशति स्वामी ।

 कृष्णः-( सप्रश्रयम्) अयि रौहिणेय ! कल्पान्तक्रुद्धरूद्रापवादः कोऽयमकाण्डे दारुणः संरम्भः । महदिदमनुचितुमू ।

क्षतसमदगजानां कुम्भमुक्त्ताफलौवै-
 र्वितरति वनदेशे केसरी यश्चतुप्कम् ।