शङ्कर:-( सहर्पोईलासम्) वत्स वत्स धनञ्जय ! उक्तिप्टोत्तिष्ट ।
अर्जुनः-( सहसोत्थाय शिरसि चद्वाञ्जलिः ) भगवन् पीयूपमयूखशेखर ! नमस्ते नमस्ते ।
भघसि सुकृत्नपाकैः स्तेनकस्यापि साक्षा- |
शङ्करः-( सप्रमोदं विहस्य ) वत्स पार्थ ! नाघिज्ञातपौरुपनिकपाय महास्त्रमिदं प्रदेयमित्येप त्वद्विमःमपरीक्षोपायः कृतः | सम्प्रति गृहाणैनन्महास्त्रम् । ( इति महास्त्रं दत्त्वाऽर्जुनस्य मूर्ध्नि हस्तं ददाति )
सिद्धा ----आक्ष्चर्यमाक्ष्चर्यम् ।
निर्गत्य नेत्रदुम्मिंत्रं ज्योतिः किमपि शङ्करात् । |
अर्जुनः-( सहर्पम् ) देव देव त्रिजगद्गुरो ! किं ते गुरुदक्षिणां ददामि ? ।
त्वां विश्वत्रयसर्गपालनलयव्यापारलीलामय |
शङ्करः-( सहर्षम् ) फलितमस्माकं महास्त्रप्रदानेन, यदेवं तावदाविर्भावसमनन्तरमेव वत्सः प्रकामुत्सहते ।
घन्यो धनंजय ! पिता तव देवराजो घमर्मोऽग्रजः प्रियस्सुहृत्पुम्रूपोत्तमस्य । |
अर्जुनः-( सप्रश्रयं विद्दस्य ) मम तनुं लघ्वीकरिप्यसीत्यनुचितमपि मयि करुणारसवशंवदाः समादिशान्ति पादास्तदेतत्प्रमाणाम् ।
शङ्करः-( सपरिवोपम् ) वत्स कपिध्वज ! कथय किं पुनस्तव प्रियमुपकरोमि ।